________________
शार्दूलविक्रीडितवृत्तम्
भोज्ये निर्जरराजभोज्यमधुरे हालाहलोऽक्षेपि तै, - दग्धे स्निग्धरसे रसेन निदधे तैरालनालं जलम् | क्षिप्तोच्चैः शिशिरे च चंदनरसे तैरात्मगुप्ता जडै, - र्यैर्धर्मेऽनवधानता प्रविदधे स्वर्गापवर्गप्रदे ||७|
सालं स्वर्गसदां छिनत्ति समिधे चूर्णाय चिंतामणिं, वह्नौ प्रक्षिपति क्षिणोति तरणीमेकस्य शंकोः कृते । दत्ते देवगवीं स गर्दभवधूग्राहाय गर्हागृहं, यः संसारसुखाय सूत्रितशिवं धर्मं पुमानुज्झति ॥ ८ ।।
भूयांसः प्रमदाकटाक्षविशिखैर्विद्धाः स्मरासंगिनः, सन्त्येके च सहस्रशः श्रितधनाः सक्षोभलोभाकुलाः ।
एतद्दाननिदानमत्र सुकृतं मत्वा सूजन्ति त्रिधा, येऽत्यर्थं पुरुषार्थमन्यमनिशं ते केऽप्यनल्पेतराः ||९||