________________
अथ श्री कस्तूरी प्रकरः शार्दूलविक्रीडितवृत्तम्
कस्तूरीप्रकरः कृपाकमलदृग्गल्लस्थले षट्पद, - व्रातः सातसरोजसुन्दररसे खड्गः स्मरध्वंसने। कल्याणद्रुमसेचने घनचयो लावण्यवल्ल्यंकुरः, केशानां निचयः पुनातु भुवनं श्रीनाभिसूनोर्लसन् ||१||
वाग्देवीवरवित्तवित्तपतयः कारुण्यपण्यापण, - प्रावीण्यप्रसिताः प्रसत्तिपटवस्ते सन्तु सन्तो मयि । आमोदः सरसीरुहामिव मरुत्पूरै: प्रथां प्राप्यते, वाचां विश्वसभासु यैर्जडभुवामप्युल्लसद्भिर्गुणः ||२||
द्रुतविलम्बितवृत्तम् अमृतमब्धिसुता च दृशोः सतां, वसति चेतसि निश्चय एष नः । विबुधता पुरुषोत्तमतापि यत्, स्थितिमुपैति नरे तदुरीकृते ||३||