________________
પરગ્રહ પ્રક્રમ
शार्दूलविक्रीडितवृत्तम् भूयोभारभराभिभूततरणी वार्द्धाविवोद्भीषणे, संसारे सपरिग्रहा तनुजुषां राजिर्निमज्जत्यधः ।
तत्काङ्क्षन्ति परिग्रहं जपतपश्चारित्रपावित्र्यधी:, शुद्धध्यानविधौ विधुतुदममुं मोक्तुं विमुक्तौ रताः ।।१५१।।
उपजातिवृत्तम् प्रद्वेषबंधुः कलहैकसिंधुः, प्रमादपीन: कुमताध्वनीनः ।
औद्धत्यहेतु तिधूमकेतुः, परिग्रहोऽयं दुरितद्भुतोयम् ।।१५२।।
पित्रोरूपास्तिं सुकृतानुशास्तिं, प्राज्ञैः प्रसंगं गुणवत्सु रंगम् । परिग्रहप्रेरितचित्तवृत्ति र्जहाति चैतन्यमिव प्रमीतः ।।१५३।।