________________
शार्दूलविक्रीडितवृत्तम् कीर्तिं हन्ति खलश्च बालमिलनं माहात्म्यमंगमहाव्याधिस्तनयः कुलं च विमलं चिंता मनश्चारुताम् ।
स्त्रीशीलं स्मरलंपटश्च कपट: पुण्यं गुणान्नीचता, मत्यैर्वित्तमदत्तमात्तमिह यैः सर्वं हतं तैरिदम् ।।१४२।।
भुक्त्वोच्चैर्विषमं विषं विषभूतां तैः कामितं जीवितं,
तैरब्धेरतुलं निपीय सलिलं तृष्णाक्षयोऽभीप्सितः । क्षिप्त्वा कुन्तमुखं च तैर्नयनयोः कंडूक्षतिः काङ्क्षिता, यैरादाय परर्धिमात्मसदने पूर्तिः श्रियामीहिता ।।१४३।।
स्त्रीणां हार इवातिपीनकुचयोः काञ्चीव काञ्चीपदे, गल्ले पत्रलतेव कज्जलमिवालंकारकृच्चक्षुषोः ।
रेणुभूमिविभूषणं चरणयोः पुण्यात्मनां जायते, ऽन्येषां वित्तमदत्तमत्र जहतां पुंसां प्रशंसापहम् ।।१४४।।