________________
शार्दूलविक्रीडितवृत्तम् अग्निः शाम्यति मुञ्चति प्रभुरपामौद्धत्यमोघो रुजां, यात्यस्तं विकटा घटा करटिनामाटीकते नान्तिकम् ।
शैथिल्यं समुपैति सिंधुररिपुः सर्पोऽपि नोत्सर्पति, द्राग् दूरादुपयाति दस्युरणभी: सत्यं वचो जल्पताम् ।।१३९।।
तस्माद्वैरमुपैति दूरमुरगश्रेणिः सुपर्णादिव, क्लेशो नश्यति भास्करादिव तमस्तस्मादकस्माद्भवः ।
तस्माद्भीस्तुहिमादिवाम्बुरुहिणी सज्जायते नश्वरा, सत्योद्गच्छति गीर्यदीयवदनाद् गंगेव गौरीगुरोः ।।१४०।।
અd પ્રભુ
वसंततिलकावृत्तम् अप्रेमपंकरुहिणीपतिपूर्वशैलं, धर्मार्थकामकमलाकरशर्वरीशम् ।
स्वर्गापवर्गपुरमार्गनिरोधयोधं, स्तेयं निराकुरुत कीर्तिलताकुठारम् ।।१४१।।