________________
સત્ય વૃક્રમ . कीर्तों कज्जलकूर्चकं हलमुखं विश्वासविश्वातले, नानानर्थकदर्थनावनघनं कौलीनकेलिगृहम् ।
प्रेमप्रौढपयोदपूरपवनं सन्मानमुस्ताङ्कुरे, कोलं कोलसदाशयोऽद्भूतमतिर्भाषां मृषां भाषते
॥१३६॥
सिंदूरः करिमूनि मंदिरमणिर्गेहे च देहेऽसुमां, स्तारुण्यं चलचक्षुषि द्युतिपतियोम्नि द्विजेशो निशि ।
प्रासादे प्रतिमालिके च तिलकं भूषा यथा जायते, कीर्ते: केलिगृहं तथा तनुमतां वक्त्रे वचः सूनृतम् ।।१३७।।
स्वागतावृत्तम् हानिमेति ददतां धनमुच्चैः, शीलतो भवति भोगवियोगः ।
जायते च तपसा तनुकायें, हीयते किमपि नानघवाक्यैः ।।१३८।।