________________
नानामौक्तिकहेमविद्रुममणिद्युम्नाह्वयं गोमयं, दुग्धं दुग्धपयोधिहारिलहरीशुभं यशःसंचयम् ।
वत्सं विश्वजनेहनीयमहसं स्वर्गापवर्गोदयं, या यच्छत्यवतां दयामरगवी सा रक्ष्यतामक्षयम् ।।१३३।।
अस्तानेरुदयं रवे: स लवणान्माधुर्यमास्यादहेः, पीयूषं च कुहोरनुष्णकिरणं हानि कुपथ्यानृजाम् ।
पावित्र्यं श्वपचाद्दिनं च रजनेर्दीक्षां श्रियां संग्रहात्, कांतारानगरं च काङ्क्षति वधाद्यो धर्ममिच्छत्यधीः ।।१३४।।
धर्माणां निधिरास्पदं च यशसां संभोगभूमिः श्रियामास्थानं महसां च भूरविपदां यानं भवाम्भोनिधेः । स्कन्धः सन्मतिवीरुधां प्रियसखी स्वर्गापवर्गश्रियां, धन्यानां दयिता दयास्तु दयिता क्लेशैरशेषैरलम् ।।१३५।।