________________
अथ प्रशस्तिः श्रीमते वीरनाथाय, कारूण्यपुण्यपाथसे । चरमतीर्थनाथाय, परोपकारिणे नमः ||१||| गौतमस्वामिने स्वस्ति, सुधर्मस्वामिने नमः | तत्परम्परयाऽऽयात-यतीन्द्रेभ्यो नमो नमः ||२|| शुभ्राभ्रशुभ्रसन्तत्या-मेतस्यामभवत् किल । विजयानन्दसूरीशः, सुरीशसेव्यतां गतः ||३|| ततोऽपि कमलः सूरिः, संयमकमलाकरः | उपाध्यायस्तथा वीरो, वीर आन्तरविग्रहे ||४|| सर्वागमरहस्यज्ञ-स्ततो दानसूरीश्वरः | ततोऽपि प्रेमसूरीशः, सिद्धान्तैकमहोदधिः ||५|| भुवनभानुसूरीश-स्ततो न्यायविशारदः | पंन्यासोऽस्यानुजः पद्मः, समतारससागरः ||६|| विराजते विनेयोऽस्य, मादृशेषु कृपापरः । वैराग्यदेशनादक्षः, श्रीहेमचन्द्रसूरिपः ।।७।। तत्पादपङ्कजालिना, सूरिकल्याणबोधिना | सन्दृब्धोऽयं प्रबन्धस्तु, कुर्यात् सर्वस्य मङ्गलम् ||८||