________________
यत्किञ्चिनिवेदनम् ।) इदं गम्भीरार्थसार्थं सिद्धवक्तव्यताप्रधानं सिद्धप्राभृताभिधानं चिरत्नं प्रकरणरत्नं कैः सूरिशिरोमणिभिः कदा च निर्मितम् ? इति जिज्ञासा तु एतेषां नामाधुपलम्भाभावेन शास्त्रान्तरेऽपि कापि तथाविधोल्लेखादर्शनेन च न परिशाम्यति ।
अस्य प्रकरणस्य विज्ञातानेकजिनागमरहस्या विवृतिकारका अपि कतमं भूमण्डलं मण्डयामासुः किं नामधेयाश्चाभूवन् ? इत्येतद्विषयो निर्णयोऽप्यनन्तरोदितकारणेन कर्तुं न शक्यते, किन्तु ११३८ मितसंवत्सरे तालपत्रोपरिलिखितपुस्तकोपलम्भानतेऽर्वाचीना इति निर्णीयते।
अस्य प्रकरणस्य मुद्रितविवृतितोऽपरा चिरन्तनाचार्यसन्दर्भिता टीकाप्यासीदिति मुद्रितविवृतिमध्यवर्तिसाक्ष्युपदर्शनेन स्पष्टं स्पष्टीभवति, परं सा सांप्रतं क्वापि दृष्टिपथपान्थतां न समायाति।
सान्वर्थस्यास्य विषयविवेचनं तु विद्वद्वर्यैरस्य परिभावनेन स्वयमेवावभोत्स्यत इति ।
अस्य मुद्रणवैषयिकं द्रव्यसाहाय्यं तु श्रीमद्वल्लभविजयमुनिवर्यप्रशिष्येण प्रज्ञांसेत्युपाधिधारिणा श्रीमता उमङ्गविजयगणिना तखतगढनिवासिश्रावकेभ्य उपदेशद्वारा कारितम् ।
यैः तखतगढवास्तव्यैः पुस्तकोद्धाररसिकमानसैर्महाशयैरस्य मुद्रणे द्रव्यसाहाय्यं दत्तं तेषां नामावली अध उपन्यस्यते
श्रीतखतगढसङ्घ, श्रेष्ठि-गुमानमल लखमाजी, श्रेष्ठि-सेसमल इंदाजी, श्रेष्ठिस्वरूपचंद्र फूआजी। ___ अस्य संशोधनसमये पुस्तकानां पञ्चकं समासादितम् । तत्राद्यं कसंज्ञकं परमगुरुप्रवर्तकः-श्रीमत्कान्तिविजयमुनिचित्कोशसंबन्धि नूतनमशुद्धं च । द्वितीयं पुनः खसंज्ञकं प्रवर्तकश्रीमत्कान्तिवियान्तेवासमुनिश्रीभक्तिविजयसत्कं प्राचीनं नात्यशुद्धम् । तृतीयचतुर्थे च गद्य संज्ञके श्रीमद्विजयवीरसूरिसत्के नूतनप्रायेऽशुद्धे च । पञ्चमं तु ङ संज्ञकं पालीताणान्तर्वतिश्रेष्ठि-आनन्दजी-कल्याणजी इत्येतस्य चित्कोशसत्कं 'सं. ११३८ वैशाखशुदि १४ गुरौ लिखितं श्रीमदणहिलपाटके वालभ्यान्वये कायस्थभाइलेन' इत्येतत्संवत्सरे लिखितं शुद्धप्रायं जीर्णं च ।
___ एभिः पुस्तकैः संशोधनकर्मणि साहाय्यमुपलभमानः पुस्तकप्रदातॄणां महाशयानां परोपकृति स्मरणगोचरतां नयामि ।
___एतदनन्तरोक्तपुस्तकाधारेण सावधानतया महता प्रयासेन संशोधितेऽशुद्धिरवशिष्टा यदि वाचकमहाशयानां दृष्टिपथं समवतरेत् तदा तत्र संशोध्य वाचनीयमिति प्रार्थयते
प्रवर्तकश्रीमत्कान्तिविजयचरणसेवाहेवाकः
चतुरविजयो मुनिः