SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अनुयोग द्वाराणि बहुत्वद्वारात्संनिकर्षो न भिद्यत इत्यक्षरार्थः । भावार्थस्त्वयम् - षडनुयोगद्वारोपलक्षितं यत्सिद्धतत्त्वं तस्य परमार्थसतः सत्पदप्ररूपणभावोऽनन्तः क्षेत्रकालगत्यादिमार्गणाद्वारेषु विस्तरेण कथ्यते । पुनस्तेनैव क्षेत्रादिमार्गणानुक्रमेण सिद्धद्रव्यमानमुच्यते । कुत्र ? भरतैरावतवर्षधरपर्वतादौ किं परिमाणाः सिध्यन्ति ?, अन्यत्र नेति । ततस्तेषामेव द्रव्यतया मितानां यदुक्तं सामान्यतः 'कत्थ व' कुत्र वा क्षेत्रे ? इत्येतदेवाधुना पञ्चचत्वारिंशद्योजनलक्षप्रमाणं विस्तरतः क्षेत्रादि विभागेनाख्यायते । तथा-"तिण्णि सया तित्तीसा, धणुत्तिभागो य होइ बोद्धव्वो ।" यावत् "एंगा य होइ रयणी, अद्वैव य अंगुलाई साहि(ही)या" इत्यादि । पुनरवगाहनानन्तरं स्पर्शना तेनैव क्षेत्रात्कथञ्चिद्भिना । यथा-"फुसइ अणंते सिद्धे, सव्वपएसेहिं णियमसो सिद्धो । ते उ असंखेज्जगुणा, देशपएसेसु जे पुट्ठा ॥ १ ॥" इत्यादि । तदनन्तरं यदुक्तं सामान्यतः 'केवइकालं' स एव काल इह क्षेत्रादिविशेषेणोच्यते । यथा सिद्धा अन्योऽन्यावगाहिनः सर्वदेशप्रदेशस्पर्शवृत्त्या साद्यपर्यवसानं सर्वकालं तिष्ठन्तीत्यादि । शेषान्तरादिद्वाराणामप्यनेनैव क्षेत्रादिमार्गणानुक्रमेण भावार्थोऽवसेयो यावत्सन्निकर्षः । सन्निकर्ष इति सर्वद्वारसंबन्धेन सम्-एकीभावेनाल्पबहुत्वचिन्तनमिति गाथार्थः ॥ ९-१० ॥ सांप्रतं क्षेत्रादिमार्गणाद्वारोपन्यासार्थमाह (અનુ) પૂર્વાદ્ધ સરળ છે, તે અનન્તર સિદ્ધ અને પરંપર સિદ્ધ એમ બે પ્રકારના સિદ્ધો જાણવા તેમાં જે વિશેષ છે તે પશ્ચાઈથી કહેવા अनुसार "अट्टहिं चाणुओगदारेहि" मेनो सं५ सतावे . संतादीहि य' १. 'परमार्थसत्पदप्ररूपणाभावो' क-ख-ग-घ पुस्तकेषु । २. 'वेति ङ् पुस्तके । ३. "त्रिणि शतानि त्रयस्त्रिंशद्धनुत्रिभागश्च भवति बोधव्यः ।" ४. "एका च रत्नी भवति, अष्टौ चामुलानि साधिकानि।" ५. "स्पृशत्यनंतान् सिद्धान् सर्वप्रदेशैनियमा सिद्धः । ते तु असंख्येयगुणा देशप्रदेशैर्ये स्पृष्टाः ।" ६. पातासंपा - नास्ति ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy