SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७१ परिशिष्ट-१ हिमवति पुष्करार्द्धसत्के इत्यर्थः संख्येयगुणाः ९ । तेभ्यः 'दु ति' इत्यनुवर्तते ततो द्वितीये धातकीखण्डसत्के निषधे १० तृतीये पुष्करार्द्धसत्के महाहिमवति च सिद्धाः संख्येयगुणाः ११ ततः 'बिअहिमवे' इति धातकीखण्डसत्के हैमवते विशेषाधिकाः १२ तेभ्योऽपि तृतीयनिषधे पुष्करार्द्धसत्के सिद्धाः संख्येयगुणाः १३ ततो द्वितीयकुरुषु धातकीखण्डसत्केषु कुरुषु देवकुरुषु संख्येयगुणाः १४ तेभ्यो घातकीखण्डसत्क एव हरिवर्षे विशेषाधिकाः १५ तथा तृतीये पुष्करार्द्धसत्के हैमवते संख्यातगुणाः १६ ततोऽपि पुष्करार्द्ध एव देवकुरुषु सिद्धाः संख्येयगुणाः १७ तेभ्योऽपि तत्रैव हरिवर्षे विशेषाधिकाः १८ 'दु दु संख एग अहिआ' इति द्वयोर्द्वयोः स्थानयोः संख्यातगुणा इति वाच्यम् । एकस्मिन् स्थाने विशेषाधिका इति वाच्यम् । एतञ्च पूर्वमेव सविस्तरं भावितम् । 'कम' इति ततः क्रमेण भरतत्रिकसिद्धाः विदेहत्रिकसिद्धाश्च यथोत्तरं संख्यातगुणा वाच्याः । इदमुक्तं भवति–पुष्करार्द्धहरिवर्षसत्केभ्यः सिद्धेभ्यो जम्बूद्वीपभरतसिद्धाः संख्येयगुणाः १९ तेभ्यो धातकीखण्डभरतसिद्धाः संख्येयगुणाः २० ततः पुष्करार्द्धभरतसिद्धाः संख्येयगुणाः २१ ततो जम्बूद्वीपविदेहसिद्धाः संख्येयगुणाः २२ ततो धातकीखण्डविदेहसिद्धाः संख्यातगुणाः २३ ततः पुष्करवरद्वीपार्द्धविदेहसिद्धाः संख्यातगुणाः २४ । समानक्षेत्रेषु समानगिरिषु च निजनिजवर्वर्षधरैश्च समं तुल्या वाच्याः ॥ ३६ ॥ ३७ ॥ गतं क्षेत्रद्वारम् । संप्रति कालद्वारमाह दुसमदुसमाइ थोवा, दूसमसंखगुण सुसमसुसमाए । अस्संखा पण छठे, अहिआ तुरिअंमि संखगुणा ॥ ३८ ॥ अवसप्पिणि अरएसुं, एवं ओसप्पिणीइ मीसेवि । परमवसप्पिणि दुस्समअहिआ सेसेसु दुसुवि समा २।३९ ॥
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy