SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ १५९ इगविजय वीस अडसय, पत्तेयं कम्मभूमि तिरिलोए । दु दु जलहि पंडगवणे, अकम्ममहि दस य संहरणा १॥ तत्र क्षेत्रद्वारे चतुरशब्दस्य प्रत्येकं योगात् । ऊर्ध्वलोके सामान्यतो मेर्वादौ नन्दनवने जले सामान्यतो नद्यादिगते च जले "चउक्कं दुवे समुदंमि" इति वचनात् । श्रीजिनभद्रगणिक्षमाश्रमणरचितसंग्रहण्याम्"तओ जले चेव" इत्युक्तम् । तदत्र त केवलिनो विदन्ति । यदुक्तम्"वीस पहुत्तं अहोलोए" इति सिद्धप्राभृते । संग्रहण्यां पुनः-"बावीसमहो लोए" इत्युक्तम् । "दो अ वीसा अहोलोए" इत्युत्तराध्ययने उक्तम् । तदत्र तत्त्वं ज्ञानिनो विदन्ति । पृथक्त्वं द्विप्रभृतिरानवभ्यः ॥९॥ एकस्मिन् विजये २० पञ्चदशकर्मभूमिषु प्रत्येकं १०८ तिर्यग्लोकेऽप्येवं सिध्यन्ति । सामान्यतः समुद्रे पण्डकवने च द्वौ द्वौ । अकर्ममहीषु हैमवत ५ हरिवर्ष ५ देवकुरु ५ उत्तरकुरु ५ रम्यक ५ हेरण्यवत ५ रूपासु त्रिंशत्संख्यास्वपि संहरणं प्रतीत्य दश दश सिध्यन्ति १ ॥ १० ॥ तिचउत्थ अरे अडसय, पंचमए वीस दस दस य सेसे २। नरगतिग भवण-वण-नर-जोइसतिरि-तिरिखिणी दसगं ॥ ११ ॥ वेमाणिअ अट्ठसयं, हरिय छऊ पंकपुढविजल चउरो । जोइविमाणिनरित्थी, वीसं भवणवणथी पणगं ३।१२ कालद्वारे उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारके ऽष्टशतम् । सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् अवसर्पिण्यां पञ्चमारके विंशतिः । 'सेसे' इति जातावेक वचनम् । ततः शेषेष्वरकेषु प्रत्येकं उत्सर्पिण्यामवसर्पिण्यां च संहरणतो
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy