________________
दत्वा गणने लब्धः एकः सर्वलधिमीलने जातं निंशत्युत्तरशतं ततो विंशत्युत्तरशतसंख्योऽयं भंग इतिवाच्यं एवं ज्ये ष्टमंकमादौ दत्वाऽधस्तनकोष्टेभ्यो गणनेऽप्ययमेव संख्या याताऽत्यपंक्तौ पूर्वं स्थितत्वेन ज्येष्टमेककं मुक्त्वा द्धिकं ज्येष्टं आदौ दत्वा प्राग्वात् गणने द्धिकाळातकोष्टे लब्धाः १८ एवं तृतीयपंक्तौ मुक्त्वा त्रिकमादौ दत्वा गणने तदाक्रान्तकोष्टे लब्धाः ४ द्धितीयपंक्तावेकद्धिकत्रिकान् ज्येष्टानपि पूर्व स्थितत्वेन मुकत्वा शेषं ज्येष्टं चतुष्कमादौ दत्वा गणने लब्धः एकः एवमाद्यपंक्ती पंचकाक्रांतस्थाने लब्ध एक: सर्वमीलने जातं १२० _____ अथ तृतीयमुदाहरणं १२३४५ अयं कतिथ इति पृष्टे सर्वलब्धं पंचकमादौ दत्वोपरितनको ष्टकाद् गणने पंचकाक्रातस्थाने लब्धं शून्यं एवं चतुर्थपंक्तौ पंचकम् पूर्वस्थितं मुक्तवा चतुष्कमादौ दत्वा गणने चतुष्काक्रान्तस्थाने लब्धं शून्यं तृतीयां प्रोक्तरीत्या त्रिकमादौ दत्वा गणने लब्धं शून्यं एवं द्वितीयामपि आद्यपंक्तौ शेषमेककमादौ दत्वा गणने एकाक्रान्तकोष्टे लब्ध एक: तत: प्रथमोऽयं भंग: एवमधस्तनकोष्टकाद् गणने यथा ज्येष्टमेककमादौ दत्वाऽधस्तनकोष्टकाद् गणनेऽत्यपंक्तौ पंचकाक्रांतकोष्टे चतुर्थपंक्ती चतुष्काक्रान्तकोष्टे तृतीयपंक्तौ त्रिकाक्रान्तकोष्टे द्वितीयपंक्तौ द्विकाक्रान्ते च कोष्ट लब्धानि शून्यानि आद्यपंक्तौ लब्ध एक: तत: प्रथमोऽयं भंग: एवं सर्वत्र ज्ञेयं ।
अत्रानुपूर्वीभंगगुणनमाहात्म्यमाहइअ अणुपुन्विप्पमुहे भंगे सम्मं विआणिउं जोउ। भावेण गुणइनिच्चं सो सिद्धिसुहाई पावेई ॥२६॥ जं छम्मासिय वरसिय, तवेण तिव्वेण मिद्द(ज्झ)ए पावं । नमुक्कार अणणु पुव्वी, गुणणे तयं खणद्धे ण ॥२७॥