________________
... जंमि य निखित्ते, खलु सो चेव हविज अंकविन्नासो।
सो होइ समयभेओ, वजे यवो पयत्तेण ॥१४॥ स्पष्टा । अथ नष्टानयने करणमाहनळूको भाइजइ, परिवठू हिं इहंति माईहिं। लद्धा अंताइगया, तयग्गिमं जाण नळंतु ॥१५॥ इगसे से से संका ठाविज कमेण सुन्न। से संमि लद्धं करु, इगहीणं उक्कमओ ठवसु सेसंके ॥१६॥ युग्मम् ।
व्याख्या-नष्टांको नष्टस्वरुपस्य संख्यांकः सोऽत्यादिभिः परिवर्तीकै भज्यते यल्लभ्यते तदंकसंख्या अंत्यादयोऽकागता ज्ञेया: कोऽर्थ: नष्टरुपत: पूर्वं तावत् संख्या अंत्यादयोऽकास्तस्यां पंक्तौ परिवर्तीक संख्यवारान् स्थित्वा तत उच्छिता इत्यर्थ: ततस्तेभ्यः . पश्चानुपूर्व्या यदवेतनमंकरुपं तन्नष्टं ज्ञेयं, कोऽर्थः तन्नष्टकथने तत्र २ पंक्तौ लेख्यमित्यर्थः एवं क्रियमाणे यद्येक: शेष: स्यात्तदा शेषरुपाणि लिखितरुपादवशिष्टानि क्रमेण स्थाप्यानि प्रथमादिपंक्तिषु लेख्यानीत्यर्थः तथा यदि शून्यं शेषम् स्यात्तदा लब्धांक एकेन हीन: कार्य: तत: एकहीनलब्धांकसंख्या अंत्यादयोऽकास्तस्यां पंक्तौ गता ज्ञेया: पूर्वस्थापिता संप्रति उच्छिता इत्यर्थः तेभ्य: पश्चानुपूर्व्याऽग्रेतनं नष्टं रुपं ज्ञेयं इति प्राग्वत् लिखितनष्टरुपेभ्य: शेषाउँका प्रथमादिपंक्तिषु क्रमेण लेख्याः।
अत्र पंचपदीमाश्रित्योदाहरणं यथा त्रिशत्तमं रुपम् नष्टं तत्कीदृशम्? इति केनापि पृष्टं ततोऽत्र त्रिंशदंत्यपरिवर्तेन चतुर्विशतिरुपेण भज्यते लट एक: शेषा: षट् ततोऽत्र पंचमपंक्तौ पंचकरुपमेकं रूपं गतं कोऽर्थः चतुर्विंशतिवारान् स्थित्वा संप्रति पंक्ति उच्छितभित्यर्थः तस्माच्च पश्चानुपूर्व्याऽग्रेतनं चतुष्कं रुपं नष्टं ज्ञेयं संप्रति परिवर्त्तते इत्यर्थः अतचतुष्को नष्टस्थाने पंचमपंक्तौ स्थाप्य: तथा शेषषट्कस्य चतुर्थपंक्तिसत्केन