________________
"
जा सयलभंगसंखा, नवरं पंतीसु दोसु पढमासु । कमउकमओ दुन्हवि से से अंके ठविजासु ॥ १३ ॥ व्याख्या-स्वस्वपरिवत्तांकप्रमाणास्तत् संख्यास्तु अल्पवारान् पश्चानुपूर्व्याऽत्यादिषु पंक्तिष्वंत्यप्रभृतीनंकानऽधोऽधः स्थापयेत् समयभेदं वर्जयित्वा सकलभंगसंख्यापूर्त्तिं यावत् नवरं प्रथमपंक्तिद्वये प्रथमद्वितीयपंक्त्योरित्यर्थः शेष अंकद्वयं क्रमोत्क्रमाभ्यां स्थाप्यं, पंचपदानाश्रित्य भावना यथा अत्रांत्यापंक्ति: पंचमी तस्यां च चतुर्विंशतिरुप: परिवर्त्तीक: ततश्चतुर्विंशति वारानंत्योऽक पंचकरुपः स्थाप्यः, ततश्चतुष्कत्रिकद्विकैककाः क्रमेण चतुर्विंशति चतुर्विंशतिवारानऽधोऽधः स्थाप्याः, यावज्जाता सकलभंगसंख्या विंशत्युत्तरशतरुपा संपूर्णा, तत: चतुर्थपंक्तौ षट्करुपः परिवर्त्तीक समयभेदकारिणमंत्यमपि पंचकं मुक्त्वा चतुष्कत्रिकद्विकैककाः षट् वारान् स्थाप्या:, ततः षटवारान् पंचक: स्थाप्यः ततः समयभेदकरं चतुष्कं मुक्तवा त्रिकद्विकैककाः षट् षट् संख्यान् वारान् स्थाप्याः, ततः समयभेदकरं त्रिकं मुक्त्वा पंचकयतुष्कट्टिकैकाः षट् २ संख्याः स्थाप्याः, ततः समयभेदकं द्विकं मुक्त्वा पंचकचतुष्कत्रिकैककाः षट् २ संख्या: स्थाप्या:, तत: समयभेदकरमेककं त्यक्त्वा पंचकचतुष्कत्रिकद्धिकाः षट् षट् संख्या स्थाप्या:, जाता चतुर्थपंक्ति: संपूर्णाः, अथ तृतीय पंक्तौ द्विकरुपः परिवर्तांक : तत: पंचकं चतुष्कं समयभेदकरं मुक्त्वा त्रिकद्विकैकका द्धि र्जे स्थाप्या:, ततः पंचकं त्रिकं च मुक्त्वा चतुष्कद्विकैककाः द्विर्द्धिः स्थाप्यः ततश्चतुष्कत्रिकैककाः ततश्चतुष्कत्रिकद्विका: ततस्त्रिकद्विकैकका: तत: पंचकद्विकैककाः तत: पंचकत्रिकद्विका: एवमंत्यादयोऽका: समयभेदकरानंकान् मुक्त्वा द्विर्द्धिः स्थाप्याः तावत् यावत् संपूर्णा तृतीया पंक्ति: स्यात् आदिपंक्तिद्धये च शेषावंकौ पूर्वभंगे क्रमात् द्वितीय भंगे तु क्रमात् स्थाप्यौ यावत् द्वेऽपि पंक्ती संपूर्णे स्याताम्, अथ समयभेदस्वरुपम् प्राह
Sas
A