________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३४
अनुयोगद्वारस्त्रे द्रव्याध्ययन द्विविधं प्रज्ञप्तं, तद्यथा-आगमतश्च नो आगमतश्च । अथ किं तत् आग. मतो द्रव्याध्ययनम् ? आग मतो द्रव्याध्ययन-यस्य खलु अध्ययनमिति पदं शिक्षित स्थितं जितं मितं परिजितं यावत् एवं यावन्त अनुपयुक्ताः तावन्ति आगमतः द्रव्याध्ययनानि । एवमेव व्यवहारस्यापि । संग्रहस्य खलु एको वा अनेको वा अनुयुक्तोवा अनुपयुक्ता वा आगमतः द्रव्याध्ययनं द्रव्याध्ययनानि वा, ततू एक द्रव्याध्ययनम् । ऋजुसूत्रस्य एकोऽनुपयुक्त आगमतः एक द्रव्याध्ययन पृथक्त्वं नेच्छति, त्रयाणां शब्दनयानां ज्ञायकः अनुपयुक्तः अवस्तु । कस्मात् ? यदि ज्ञायकः अनुपयुक्तो न भवति, यदि अनुपयुक्तो ज्ञायको न भवति, तस्मात् नास्ति आगमन द्रव्याध्ययनम् । तदेतत् आगमतो द्रव्याध्ययनम् । अथ किं तत् नो आगमतो द्रव्यापनम् ? नो आगमतो द्रव्याध्ययन त्रिविधं प्रज्ञ, तद्यथा ज्ञायकशरीरद्रव्याध्ययन भविकशरीरद्रव्याध्ययन ज्ञायफशरीरभविकशरीरव्यतिरिक्तं द्रवाध्ययनम् । अथ किं तत् ज्ञायकशरी'द्रव्याध्ययन ? ज्ञायकशरीरद्रव्याध्ययनम्-अध्ययनपदार्थाधिकारज्ञायकस्य यत् शरीरकं पपगतचुतच्यावितल्यक्तदेहे जीव विप्रत्यक्तं शरयागतं वा संस्कारगतं वा निषेधिकागतं वा सिद्धशिलातलगतं वा दृष्ट्वा खल कोऽपि भणेत्, अहो ! खलु अनेन शरीरसमुच्छ्रयेण जिनदृष्टेन भावेनअध्ययनमिति पदम् आख्यातं प्रज्ञापितं प्ररूपितं दर्शितं निदर्शित उपदर्शितम् , यथा को दृष्टान्तः ? अयं घृतकुम्भ आसीत्, अयं मधुकुम्भः आसीत् , तदेतत् ज्ञायकशरीर द्रव्याध्ययनम् । अथ किं तत् भविकशरीरदव्याध्ययनम् ? भविक शरीरद्रव्याध्ययनम् यो जीवो योनिजन्मनिष्क्रान्तः अनेना आदराकेन शरीरसमु. च्छ्रयेण जिनदृष्टेन भावेन अध्ययनमिति पदं एष्यकाले शिक्षिष्यते न तावत् शिक्षते, यथा को दृष्टान्तः ? अयं मधुकुम्नो भविष्यति अयं घृतकुम्भो भविष्यति । तदेतत् भविकशरीरद्रव्याध्ययनम् । अथ किं तत् ज्ञायकशरीरभविकशरीव्यतिरिक्त द्रध्याध्ययनम् ? ज्ञापकशरीरभविकशरीव्यतिरिक्तं द्रव्याध्ययन-पत्रकपुस्तक लिखितम् । तदेतद् ज्ञायकशरीरमविकशरीरव्यतिरिक्त द्रव्याध्ययनम् । तदे तद् नो आगमतो द्रव्याध्ययनम् । तदेतद् द्रव्याध्ययनम् । अथ किं तत् भावाध्ययनम् ? मावाध्ययनम्-द्विविधं प्रज्ञप्तं, तद्यथा आगमतश्च नो आगमतश्च । अथ कि तत् आगमतो भावाध्ययनम् ? आगमतो भावाध्ययन-ज्ञायकः उपयुक्तः। तदेतत् आगमतो भावाध्ययनम् । अथ किं तद् नो आगमतो भावाध्ययनम् ? नो आगमतो भावाध्ययनम्-अध्यात्मन आयन कर्मणामपचयः उपचितानाम् , अनुपचयश्च नवानां तस्मात् अध्ययनमिच्छन्ति ॥१॥ तदेतत् नो आगमतो भावाध्ययनम् । तदेतद् भावाध्ययनम् । तदेतत् अध्ययनम् ॥२४२।।
For Private And Personal Use Only