________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
४४
अनुयोगद्वारसूत्रे .... छाया-अथ किं तत् स्थापनाप्रमाणम् ? स्थापनाप्रमाणं-सप्तविधं प्रज्ञप्तं, तद्यथा-नक्षत्रदेवताकुलं पापण्डगणं च जीवितहेतु । अभिप्रायिकनाम स्थापनानाम तु सप्तविधम् । अथ किं तत् नक्षत्रनाम ?, नक्षत्रनाम-कृत्तिक.सु जातः कार्तिकः, कृत्तिकादत्तः कृत्तिकाधर्मः कृतिकाशर्मा कृत्तिकादेवः कृत्तिकादास., कृत्तिकासेनः, कृत्तिकारक्षितः । रोहिणीषु जातः-रौहिणेयः, रोहिणीदत्तः रोहिणीधर्मः, रोहिणीशर्मा, रोहिणीदेवः, रोहिणीदासः, रोहिणीसेनः, रोहिणीरक्षितश्च । एवं सर्व नक्षत्रेषु नामानि भणितव्यानि । अत्र संग्रहणीगाथा:-कृत्तिका१ रोहिणी२ मृगशिराः३ आश्वि४ पुनर्वभू च५ पुष्यं च६ । ततश्च अश्लेषा७ मघाट द्वे फल्गुन्यौ च९-१०॥१॥ हस्तः११ चित्रा१२ स्वातिः१३ विशाखा१४ तथा च भवति अनुराधा१५ । ज्येष्ठा१६ मूला१७ पूर्वाषाढा१८ तथा उत्तरा१९. चैव ॥२॥ अभिजित् २० श्रवणा२१ धनिष्ठा२२ शतभिषग् २३ द्वे च भवतः भाद्रपदे २४-२५। रेवती२६ अश्विनी२७ भरणी२८ एषा नक्षत्रपरिपाटिः ॥३॥ तदेतत् नक्षत्रनाम । अथ कि तत् देवता नाम ? देवतानाम-अग्निदेवतासु जातः आग्निकः, अग्निदत्तः, अग्नि. शर्मा, अग्निधर्मः, अग्निदेवः, अग्निदासः, अग्निसेनः अग्निरक्षितः। एवं सर्वनक्षत्रदेवतो नामानि भणितव्यानि। अत्रापि संग्रहणी गाथा:-अग्निः१ प्रजापतिः२ सोमो३ रुद्रः४ अदितिः५ बृहस्पतिः६ सर्पः७। पितरो८ भर्गोऽर्यमा९-१० सविता११ त्वष्टा१२ वायुश्च१३ इन्द्राग्निः१४॥१॥ मित्र १५ इन्द्रो१६ नि तिः१७ अम्भः१८ विश्वश्व१९ ब्रह्मा२० विष्णुः२१। वसुबरुगः२२-२३ अजो२४ विवद्धिः२५ पूषा२६ अश्वो२७ यमश्चैव२८ ॥१॥ तदेतत् देवतानाम । अथ किं तत् कुलनाम?, कुलनाम-उग्रः, भोगः, राजन्यः, क्षत्रियः, ऐक्ष्वाका, ज्ञातः, कौरव्यः । तदेतत् कुलनाम । अथ किं तत् पाषण्डनाम ? २ श्रमणश्च पाण्डुराङ्गो भिक्षुः कापालिकश्च तापसः । परिव्राजकः। तदेतत् पाषण्डनाम। अथ किं तद् गणनाम ? गणनाम-मल्ला, मल्लदत्तः, मल्लधर्मः, मल्लशर्मा, मल्लदेवः, मल्लदासः, मल्लसेनः, मल्लरक्षितः। तदेतद् गणनाम । अथ किं तत् जीवितनाम ?, जीवितनाम-अवकरकः, उत्कुरुटकः, उज्झितका, कचवरकः, शूर्पकः । तदेतत् जीवितनाम । अथ किं तत् अभिपायिकनाम ? अभिप्रायिकनाम,-अम्बकः, निम्बकः, बकुलका, पलाशका, स्नेहकः, पीलुकः, करीरकः, तदेतत् अभिप्रायिकनाम। तदेतत् स्थापनाप्रमाणम् ॥ सू० १८३ ॥
टीका-'से किं तं ठवणप्पमाणे' इत्यादि
अथ किं तत् स्थापनाप्रमाणम् ? स्थापनाप्रमाणेन यद् नाम निष्पद्यते तत् कि-किंविधम् ? इति शिष्यपश्नः। उत्तरयति-स्थापनानाम हि नक्षत्रनामदेवनाम
For Private And Personal Use Only