SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे जघन्यपदवत्तित्वं बोध्यम् । इत्थं च जघन्यपदवर्तिनां गर्भजजीवानां संख्येयत्वासच्छरीराण्यपि संख्ये यानि । ननु संख्येयममाणेऽनेकसंख्ये गभेद उपलभ्यते, अत्र यत्संख्येयप्रमाणमुक्तं तत् कियत् ? इत्याह-संख्येयाः कोटीकोटयः- गर्भजमनुष्यप्रमाणं संख्येयकोटीकोटयात्मकं बोध्यम् । एताः संख्येयकोटीकोटयः एकोनत्रिंशत् स्थानानिएकोनत्रिंशदङ्कस्थानानि भवन्ति । अमुमेनार्थमाह-त्रियमलपदत्य उपरि चतुर्यमलपदस्याधस्तादिति । यमलमिति अष्टानामष्टानामङ्कस्थानानां समयप्रसिद्धा संज्ञा । त्रयाणां यमलपदानां समाहारस्त्रियमलपदम्-चतुर्विशत्यङ्कस्थानलक्षणं, तस्य उपरि तथा चतुर्यमलपदस्प-द्वात्रिंशदङ्कस्थानानाम् अधस्तात् । अयं भावः एकोनत्रिंशत् अङ्कस्थानानि चतुर्विंशत्यङ्कस्थानात्मकस्य त्रियमलपदस्य उपरिपश्चाङ्कस्थानाधिकानि तथा द्वात्रिंशदङ्कस्थानात्मकस्य चतुर्यमलपदस्य अधःस्थानात् त्रितयाङ्कस्थानहीनानीति । अथवा-षष्ठो वर्गः पञ्चमवर्गप्रत्युत्पन्न: पञ्चमवर्गगुणित एकोनत्रिंशदङ्कस्थानात्मको भवति । अयं भावः-एकस्य वर्ग एक एव भवति, अयं न वर्धतेऽतो न वर्गत्वेन गृह्यते । द्वयोगश्चत्वारः (४), एष प्रथमो वर्गः । चतुर्णा वर्गः षोडश (१६), एष द्वितीयो वर्गः । षोडशानां वर्गः षट्पश्चाशदधिकशतद्वयम्-(२५६), एष तृतीयो वर्ग: । षट्पञ्चाशदधिकशतद्वयस्य वर्ग: पञ्चषष्टिः सहस्राणि पश्चशतानि पत्रिंशदधिकानि (६५५३६) एष चतुर्थों वर्गः । एषां वर्गाः चत्वारि कोटिशतानि एकोनत्रिंशत् कोटयः एकोनपश्चाशल्लक्षाणि सप्तषष्टिसहस्राणि द्वे शते पणवतिश्चेति (४२९४९६७२९६), एष पश्चमो वर्गः। एषां वर्ग:-एक कोटीकोटिशतसहस्रं, चतुरशीतिः कोटीकोटिसहस्राणि, सप्तषष्टयधिकानि चत्वारि कोटीकोटिशतानि, चतुश्चत्वारिंशत् कोटीलक्षाणि, सप्तकोटीसहस्राणि, सप्तत्यधिकानि त्रीणिकोटिशतानि, पश्चनव तिलक्षाणि, एकपञ्चाशत्सहस्राणि षट्शतानि षोडश च (१८४४६७४४०७३७०९५५१६१६), एष षष्ठो वर्गः । एषु वर्गेषु षष्ठो वर्गः पञ्चवर्गेण गुण्यमानः-७९२२८१६२. ५१४२६४३३७५९३५४३९५०३३६-एकोनत्रिंशदङ्कस्थानात्मको भवति । अयं च राशिः कोटीकोटयादिप्रकारेण प्रतिपादयितुं न शक्यते, अतएव पर्यन्तक्रममाश्रित्य द्वाभ्यां गाथाभ्यामयं निर्दिष्टः, तथाहि-छ तिन्नि तिनि सुन्नं पंचेव य नव य तिनि चत्तारि । पंचे तिणि नव पंच सत्त तिन्नेव तिन्नेव ॥ १॥ चउ छदो चउ एक्को पण दो छक्केक्कगो य अटेर । दो दो नव सत्तेत्र य अंकद्वाणा परा हुत्ता २॥ छाया-पट्त्रीणि त्रीणि शून्यं पश्चैव च नव च त्रीणि चत्वारि । पञ्चैत्र त्रीणि नव पञ्चसप्त त्रीण्येव त्रीण्येव ॥१॥ चत्वारि षड् द्वे चत्वारि एक: पश्च द्वे षट एककश्च अष्ट्रव । द्वे द्वे नव सप्तैव च अङ्कस्थानानि पराङ्मुखानि ॥२॥ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy