SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २१३ नारकादीनामौदारिकादिशरीरनि० ४२१ नारकैर्युक्तान्यौदारिकशरीराणि तिर्यगा दिनानाभवेषु माक् संभवन्ति, तानि औधिकमुक्तौदारिकशरीरवर वाच्यानि । तथा नैरपिकापां वैक्रियशरीराण्यपि बद्धमुक्तभेदेन द्विविधानि बोध्यानि । तत्र बद्धानि वैनियशरीराणि असंख्येयानि, नारकजीवानामसंख्येयत्वात् प्रविनारकजीवमेकेकक्रियशरीरसद्भागात् । एतानि शरीराणि कालवः उत्सर्पिण्यवसर्पिणीषु यावन्तः समया भवन्ति तावत्संख्यकानि बोध्यानि । क्षेत्रतः-असंख्येयाः श्रेणयः प्रतरस्यासंख्येयभागे। पारस्य असंख्येयमागे वर्तमाना या असंख्येयाः श्रेणयस्तासां ये प्रदेशास्तत्संख्यकानि भवन्ति एतानि शरीराणि क्षेत्रत इत्यर्थः । ननु प्रतरासंख्ये यमागेऽसंख्येया योजनकोटयोऽपि भवन्ति, तत्किमेतावत्यपि क्षेत्रे या नभाश्रेणयो भवन्ति ता इह गृह्यन्ते ? इति चेदाह-'तासि णं सेढीण' इत्यादि-तासां श्रेणीनांतरासंख्येयभागवयंसख्येयश्रेणीनां विष्कम्भचिः विस्तुरश्रेणिरिह गृह्यन्ते, न तु प्रतरासंख्येयभागवर्णसंख्येययोजनकोटयात्मक क्षेत्रवर्तिनमात्रेणिः । इयं विष्कम्भभूचिः कियस्ममाणा गृह्यते ? इत्याह -'अंगुलपहमवग्गमूल' इत्यादि। इयं विष्कम्भमूचिः द्वितीय वर्गमूलगुणितपथमवर्गमूलप्रमाणा बोध्या । अयं भावः-अंगुलप्रमाणे प्रतरक्षेत्रे या श्रेणिः राशिस्तनासंख्येयानि वर्गमूलानि भवन्ति । तत्र प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं-गुणितम् । एवं च सति यावत्योऽत्र श्रेणयो लभ्यन्ते तावत्पमागा विष्कम्भमूविर्भवतीति । अयेदं बोध्यम्-वस्तुतोऽसंख्येयपदेशात्मके प्रतरक्षेत्रे सत्कल्पनया षट्पञ्चाशदधिकद्विशतश्रेणयो (२५६) भवन्ति । अत्र प्रथम वर्गमूलं षोडश १६ द्वितीयवर्गमूलं चत्वारः ४, चतुर्भिःषोडशगुणिता जाता चतुःषष्टिः । असत्कल्पनया कल्पितैषा चतुष्षष्टिः श्रेणयो वस्तुतोऽसंख्येयाः मेणयो भवन्ति । एतावच्छेश्यात्मिका विष्कम्ममूचिरिह गृह्यते इति । प्रकारान्तरेणासमेवार्थमाह-'अहव गं' इत्यादि-अथवा खलु अंगुलद्वितीयवर्गमूलघनप्रमाणमात्रा श्रेण यः । अयं भाव:-अंगुलप्रमाण पतरक्षेत्रवर्तिनः श्रेणिराशेर्यद् द्वितीयवर्गमलं चतुःसंख्यकमनन्तरमभिहितं, तस्य यो घनाचतुषष्टिस्वरूपस्तत्प्रमाणमात्रा:-तत्संख्यकाः श्रेगयोऽत्र बोध्या । अत्र प्ररूपणैव भिद्यतेऽर्थस्तु स एव । एवं चासत्कल्पन या चतुष्पष्टिसंख्यात्वेनोक्तानां वस्तुनोऽसंख्येयानां श्रेणीनां या प्रदेशराशिस्तावत्संख्यकानि नैरयिकाणां बद्धवैक्रियशरीराणि भवन्ति । प्रत्येकशरीरत्वान्नैरयिका अप्येतावत्संख्यका भवन्ति । पूर्व तु नारकाः सामान्ये. नैवासंख्येया उक्काः, अब तु तेषां शरीरविचारः प्रस्तूयते, अतस्तेषां शरीरमपि असंख्येयकं प्रतिनियतस्वरूपं सिध्यति । एवमन्यत्रापि सर्वे प्रत्येकशरीरिणः स्वस्व. बद्धशरीरसमसंख्यका बोध्या इति । नैरयिकाणां मुक्तवैक्रियशरीराणि तु मुक्तौदा. For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy