________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २५७॥
॥ २५८॥
॥ २५९॥
॥ २६०॥
।। २६१ ॥
॥ २६२॥
ज्येष्ठा तु मध्यमा मध्या सावित्री स्यादनामिका। कनीनिका तु कनिष्ठाऽवहस्तो हस्तपृष्ठतः कामाङ्कुशो महाराजः करजो नखरो नखः । करशूको भुजाकण्टः पुनर्भवपुनर्नवौ प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः । प्रहस्तस्तालिका ताल: सिंहतलस्तु तौ युतौ संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि । संग्राहश्चार्धमुष्टिस्तु खटकः कुब्जितः पुनः पाणिः प्रसृतः प्रसृतिस्तौ युतौ पुनरञ्जलि: । प्रसृते तु द्रवाधारे गण्डूषश्चुलुकश्चलुः हस्तः प्रामाणिको मध्ये मध्यमाङ्गुलिकूर्परम् । बद्धमुष्टिरसौ रत्निररनिनिष्कनिष्ठिकः व्यामव्यायामन्यग्रोधास्तिर्यग्बाहू प्रसारितौ । ऊर्वीकृतभुजापाणिनरमानं तु पौरुषम् दध्नद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि । कोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् स्तनान्तरं हृद् हृदयं स्तनौ कुचौ पयोधरौ। उरोजौ च चूचुकं तु स्तनाद् वृन्तशिखामुखाः तुन्दं तुन्दिर्गर्भकुक्षी पिचण्डो जठरोदरे । कालखण्डं कालखझं कालेय कालकं यकृत्
॥ २६३॥
॥ २६४ ।।
॥ २६५ ॥
॥ २६६॥
।। २६७ ॥
॥ २६८॥
पq
For Private And Personal Use Only