SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१७॥ ॥ १८ ॥ ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः । मन्दः क्रियासु कुण्ठः स्यात्क्रियावान्कर्मसूद्यतः कर्मक्षमोऽलंकर्मीण: कर्मशूरस्तु कर्मठः । कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् सिंहसंहननः स्वङ्गः स्वतन्त्रो निरवग्रहः । यथाकामी स्वरुचिश्च स्वच्छन्द: स्वैर्यपावृतः यदृच्छा स्वैरिता स्वेच्छा नाथवान् निघ्नगृह्यकौ । तन्वायत्तवशाधीनच्छन्दवन्तः परात् परे लक्ष्मीवान् लक्ष्मणः श्लील इभ्य आढ्य धनीश्वरः । ऋद्धे विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसंपदः दरिद्रो दुविधो दुःस्थो दुर्गतो नि:स्वकीकटौ । अकिञ्चनोऽधिपस्त्वीशो नेता परिवढोऽधिभूः पतीन्द्रस्वामिनाथार्याः प्रभु र्तेश्वरो विभुः । ईशितेनो नायकश्च नियोज्यः परिचारक: डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः । दास: प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ परान्नः परपिण्डादः परजातः परैधितः । भृतके भृतिभुग् वैतनिकः कर्मकरोऽपि च स नि तिः कर्मकारो भृति: स्यान्निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं निर्वेशो भरणं विधा भर्मण्या गर्म भृत्या च भोगस्तु गणिकाभृतिः । खलपू: स्याद्बहुकरो भारवाहस्तु भारिक: वार्तावहे वैवधिको भारे विवधवीवधौ । काचः शिक्यं तदालम्बो भारयविहङ्गिका ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ३१ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy