________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २७७॥
कन्दपत्रं त्वचं पत्रा, मलपत्रकमुत्तरा । मांस्यां यशी कृष्णजया, नलदा जटिला जटा ॥ २७६॥ तपस्विन्यामिषी हिंस्रा, क्रव्यादी पिशिता च सा । गन्धमास्यां पुनः केशी, भूतकेशी पिशाचिका सुलोमशा भूतजय, भूतना केशिकेत्यपि। सुरायां सुरभिर्दैत्या, गन्धाढ्यां गन्धमादनी
॥ २७८ ॥ भूरिगन्धा गन्धवती, कुटी गन्धकटी च सा । प्रपौण्डरीके शौण्डर्य, सानुजं पौण्डरीयकम् ।। २७९ ॥ प्रपुण्डरीकं चक्षुष्यं, सत्पुष्पं सानुमानकम्। जतुकायां तु जतुका जतुकृच्चक्रवर्तिनी
॥ २८०॥ जन्तुका जतुकारी च, सहर्षा जननी जनी। भांसरोहायां विकसा, वृत्ता चर्मकषा रुहा
।। २८१ ॥ रक्तपाद्यां नमस्कारी, समङ्गाऽञ्जलिकारिका। गण्डकाली शमीपत्रा, रास्ना खदिरिका च सा ॥ २८२ ॥ तद्विशेषस्त्रिपादी स्यात्सुपादी हंसपादिका। विषग्रन्थिहंसपदी, घृतमण्डलिकापि च
।। २८३ ॥ अथ स्याज्जलपिप्पल्यां, शारदी शकुलादनी । मत्स्यादनी मत्स्यगन्धा, लाङ्गली, तोयपिप्पली ।। २८४॥ शिवमल्लयां पाशुपात:, सुव्रतो वसुको वुकः । कुलपुष्पः किण्वमूलः, पाण्डुरोगप्रियः कुलः ॥ २८५ ॥ अतिविषायां तु विश्वा, भङ्गुरा श्वेदकन्दिका । उपविषा श्यामकन्दा, शृङ्गी प्रतिविषारुणा
॥ २८६॥ मेदायां स्यान्मणिच्छिद्रा, मधुरा शल्यपर्ण्यपि । महाभेदायां तु वसुच्छिद्रा देवमणिर्वसुः
॥ २८७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे द्वितीयो गुल्मकाण्डः ।
૩૨
For Private And Personal Use Only