________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २५२॥
॥ २५३ ॥
॥ २५४॥
॥ २५५ ॥
॥ २५६॥
॥ २५७ ॥
शङ्खपुष्यां क्षीरपुष्पी, शिवब्रह्मकिरीटिनी। मधुपुष्पी मधुगन्धा, शङ्खाह्य शङ्खमालिनी धूसरच्छदना श्वेतपुष्पी वनविलासिनी । कचूरे द्रविड: काल्यो, वेधान्यो गन्धमूलक: मोचामस्त्वजमोदायां, मयूरो लोचमस्तकः । खराश्वा कारवी वस्तगन्धा हस्तिमयूरक: दीप्यो वल्ली ब्रह्मदर्भा, लोचमर्कट इत्यपि । यवान्यां स्यादुग्रगन्धा, यमनी यवसाह्वयः सहदेव्यां तथा दण्डोत्पला गोचन्दना वसा । गन्धवर्णा सितैः पुष्पैर्विश्वदेवा तु सारुणैः पर्पटके वरतिक्तो रजः कवचनामकः । गोजिकायां शृङ्गबेरी, दार्विका भूमिकालिका बलायां शीतपाको स्याद्भवोदन्योदनाह्वया । वाट्यालकस्तथा वाट्यपुष्पिका पीतपुष्पिका देवसहा सहदेवाऽतिबला बाह्यपुष्पिका। ऋष्या प्रोक्ता ऋष्यगन्धा, कङ्कता वर्षपुष्पिका वाट्यायिनी भूरिबला, तिष्या वीर्या बृहद्बला । महागन्धा गन्धबली मङ्गल्याऽर्थप्रसाधनी मुसल्यां तु तालमूली, दुर्नामारिर्म (श?)त्विषा । वृष्यकन्दा तालपर्णी, सुमूला बलदा शिवा हिङ्गौ जतुकवाल्हीकगूढगन्धानि रामठम् । सहस्रवेधि भूतघ्नं, जरणं सूपधूपनम् हिङ्गुपत्र्यां पृथुः पृथ्वी, दीर्घिका चारिपत्रिका । जातृका रामठी वंशपत्रा पिण्डा शिवाटिका ।
॥ २५८॥
॥ २५९॥
॥ २६० ॥
॥ २६१॥
॥ २६२॥
૩૨૪
For Private And Personal Use Only