________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २२८ ॥
॥ २२९ ॥
॥ २३० ॥
॥ २३१ ॥
।। २३२ ॥
॥ २३३॥
कुष्टे तु पाकलं रामं, वानीरं वाप्यमुत्पलम् । वानीरजं वापिभाव्यं, कौरवं व्याधिनामकम् वालके जलकेशाख्यं, बहिष्टं दीर्घरोमकम् । हीवेरो दिव्यवज्राणि, पिङ्गमाचमनं रुचम् शण्ढ्यां पलाशः षड्ग्रन्था, गन्धोली हिमजा वधूः । कर्बुरः सुव्रता ग्रन्थमूली पृथुफलाशिका एलावालुका त्वैलेयं, वालुकं हरिवालुकम्। सुगन्ध्यालूकमेल्वालु, दुर्वर्णं प्रसरं दृढम् कुङ्कुमे रक्तपर्यायं, संकोचपिशुनं शुकम् । हीरं कुसुम्भं घुसृणं, पीतं वाल्हीकपीतने काश्मीरजं वह्निशिखं, वरं लोहितचन्दनम् । जात्यां तु रजनीपुष्पा, मालती तैलभाविनी प्रियंवदा हृद्यगन्धा, मनोज्ञा सुमनोलता। तस्यास्तु कलिकायां स्यात्पत्री सौमनसायिनी जातीफले जातिकोशा शालूकं मालतीफलम् । मज्जसारं जात्यमृतं, शौण्डं सौमनसं पुटम् यूथिकायां बालपुष्पा, मागधी शङ्खयूथिका। गुणोज्ज्वला पुण्यगन्धा, चारुमोटा शिखण्डिनी अम्बष्ठा गणिका सा तु, पीता स्याद्धेमपुष्पिका। कुन्दे माध्यः सदापुष्पो, मकरन्दो मनोहर: अट्टहासो भृङ्गमित्रं, शाल्योदनो यमश्वसः । स्यानवमालिकायां तु, मोमाली नवमालिनी सत्सला मुकुरारातिः, सुरभिः शिशुगन्धिका । कान्ता विभावरी ग्रीष्मा, ग्रैष्मिका शिखरिण्यपि
॥ २३४॥
॥ २३५ ॥
॥ २३६॥
॥ २३७॥
॥ २३८॥
॥ २३९॥
૩૨૨
For Private And Personal Use Only