________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४१ ॥
॥ ४२ ॥
।। ४३॥
॥४४॥
।। ४५ ॥
॥ ४६॥
भृशं प्रकर्षेऽत्यर्थे च सामि त्वर्धे जुगुप्सिते । अयि प्रश्नेऽनुनये स्यादये क्रोधविषादयोः सम्भ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः । ऊरपूरुरीवदूरी विस्तारेऽङ्गीकृतावपि पराभिमुख्ये प्राधान्ये विमोक्ष्यप्रातिलोम्ययोः । गतिघर्षणहिंसासु भृशार्थे विक्रमेऽपि च परि व्याधावुपरमे वर्जने लक्षणादिषु । आलिङ्गने शोके च पूजायां दोषकीर्तने भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि च । पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः पुनरप्रथमे भेदे किल सम्भाव्यवार्तयोः । हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः जिज्ञासायामनुनये वाक्यालङ्करणेऽपि च । अवाऽऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु एवौपम्ये परिभव ईषदर्थेऽवधारणे । उषा रात्रौ तदन्ते च दोषा निशि निशामुखे मक्षु शीघे भृशे तत्त्वेऽतो हेतोरपदेशवत् । निर्देशे पञ्चम्यर्थे च इतो यतश्च विभागवत् पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे। पञ्चम्यर्थे परिप्रश्ने तिरोन्तौ तिरश्चि च नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाशयोः । पुरोऽग्रे प्रथमे च स्यान्मिथोऽन्योन्यं रहस्यपि अहा धिगर्थे शोके च करुणार्थविषादयोः । अह क्षेपे नियोगे चाप्याहो प्रश्नविचारयोः
॥४७॥
॥ ४८ ॥
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
3०१
For Private And Personal Use Only