________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २३ ॥
।। २४॥
॥ २५ ॥
॥ २६॥
|॥ २७॥
॥ २८ ॥
कस्तूरीशीतयोश्चातिसर्जनं वधदानयोः । अपवर्जनं निर्वाणे परित्यागे विहायिते अभिनिष्टानस्तु वर्णे विसर्गेऽथानुवासनम् । स्नेहने धूपने चान्तावसायी श्वपचे मुनौ स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपसम्पन्नं पर्याप्ते सत्कृतप्राप्तयोम॑ते कलानुनादी चटके चञ्चरीके कपिञ्जले । गन्धमादनः कप्यद्रिभिदोरलिनि गन्धके गन्धमादनी सुरायामथ जायानुजीविनः । बकाश्विन नटदुःस्थाः स्याद्भूमकेतनोऽनले ग्रहभेदे च प्रतिपादनं बोधनदानयोः । पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि । पीतचन्दनं स्याद्धरिद्रायां काश्मीरजन्मनि महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः । भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे द्रोणकाकेऽप्यथ वरचन्दनं देवदारुणि। कालेये वरवणिन्यङ्गनालाक्षाप्रियङ्गुषु रोचनायां हरिद्रायामथ स्याच्छकुलादनी। कट्वां मांसी पिचुलिका जलपिप्पलिकासु च शालाङ्कायनो नन्घृष्योः स्याच्छ्वेतवाहन: शशी । पार्थोऽथ सहस्रवेधी चुके सहस्रवेधी तु हिङ्गौ चामरपुष्पस्तु केतके चूतकाशयोः । गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले
|| २९ ॥
॥३०॥
॥ ३१॥
॥३२॥
॥ ३३॥
॥ ३४॥
૨૫
For Private And Personal Use Only