________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
देहयात्रा यमपुरीगमने भोजनेऽपि च । द्वैमातुरो जरासन्धे हेरम्बेऽथ धराधरः कृष्णेऽद्रौ धाराधरस्तु पयोदकरवालयोः । धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले धार्त्तराष्ट्रः कौरवेऽहौ कृष्णास्यांघ्रिसितच्छदे । धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः पदालिकेऽप्यथ धुरन्धरो धुर्ये धवद्रुमे । धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्रियान्तरे धृतराष्ट्री हंसपद्यां नभश्चरः खगेऽम्बुदे । विद्याधरे समीरे च निशाचरस्तु राक्षसे सर्पे घूके शृगाले च निशाचरी तु पांसुला । निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने । प्रतीहारो द्वारि द्वास्थे प्रतिकारः समे भटे प्रतिसरश्चमूपृष्ठे नियोज्यकरसूत्रयोः । मन्त्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोर्गणे परिवारः परिजनेऽसिकोशेऽथ परम्परः । मृगभेदे प्रपौत्रादौ परम्पराऽन्वये वधे परिपाट्यां परिसरः प्रान्तभूदैवयोर्मृतौ । पक्षचरो यूथभ्रष्टपृथक्चारिगजे विधौ पयोधरः कुचे मेघे कोशकारे कशेरुणि । नालिकेरे पाटीरस्त्वपव्यापारमन्त्रिणि
૨૦૬
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २५९ ॥
॥ २६० ॥
॥ २६१ ॥
॥ २६२ ॥
॥ २६३ ॥
॥ २६४ ॥
॥ २६५ ॥
॥ २६६ ॥
॥ २६७ ॥
।। २६८ ।।
॥ २६९ ॥
॥ २७० ॥