________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८७॥
॥ १८८॥
॥ १८९ ॥
॥ १९०॥
॥ १९१ ॥
॥ १९२॥
अगस्तिकुस्तुम्बुरुणोर्मालुधानी लताभिदि । मालुधानो मातुलाहौ मातुलानी पुनः शणे कलापे मातुलपत्न्यां रसायनो विहङ्गमे । पक्षीन्द्रे रसायनन्तु जराव्याधिजिदौषधे राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके । वर्द्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः । प्रह्लादनन्दने चन्द्रे विहेठनं विडम्बनम् हिंसायां मर्दने विस्मापना स्यात्कुहके स्मरे। गन्धर्वनगरे चापि विष्वक्सेनो जनार्दने विष्वक्सेना तु फलिनी विश्राणनं विहायिते । सम्प्रेषणे परित्यागे विहननन्तु पिञ्जने वधेऽथ विश्वकर्माऽर्के मुनिभिद्देवशिल्पिनोः । विघ्नकारी विघातस्य कारके घोरदर्शने विलेपनी स्याद् यवाग्वां चारुवेषस्त्रियामपि । वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः वृक्षादनी तु वन्दायां विदायां गन्धकौषधे । वृषपर्वा तु शृङ्गारिहरदैत्यकसेरुषु वैरोचनो रविसुते सुगते बलिदानवे । श्वेतधामा घनसारे कलानाथाब्धिफेनयोः श्लेष्मघना तु केतक्यां मल्यामथ समापनम् । परिच्छेदे समाधाने समाप्तिवधयोरपि सम्मूर्च्छनमपि व्याप्तौ मोहे सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे
॥ १९३॥
॥ १९४॥
॥ १९५ ॥
॥ १९६॥
॥ १९७ ॥
॥ १९८॥
૨૮૦
For Private And Personal Use Only