________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२७॥
॥ १२८ ॥
॥ १२९॥
॥ १३०॥
॥ १३२ ॥
विनापुष्पफलिद्रौ च विनिपातस्तु दैवतः । व्यसने चावपाते च वैजयन्तो गुहे ध्वजे इन्द्रालये वैजयन्ती त्वग्निमन्थपताकयोः । जयन्त्यां च समाघातस्त्वाहवे घातनेऽपि च समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः । अविनीते समुद्गीणे समुद्रान्ता दुरालभा कार्पासिका च सृक्का च सदागतिः सदीश्वरे । निर्वाणे पवमाने च सरस्वती सरिद्भिदि वाच्यापगायां स्त्रीरत्ने, गोवाग्देवतयोरपि । सूर्यभक्तो बन्धुजीवे, भास्करस्य च पूजके हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाऽभया । अनीकस्थो रक्षिवर्गे, युत्खले वीरमर्दले चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे । अश्रद्धये नष्टधर्मेऽप्युदरथिर्वियन्मणौ अब्धौ चित्ररथो विद्याधरे गन्धर्वसूर्ययोः । चतुष्पथश्चतुर्मार्ग-सङ्गमे ब्राह्मणेऽपि च दशमीस्थ: स्थविरे स्यात्, क्षीणरागे मृताशने । वानप्रस्थो मधूकद्रौ, किंशुकाश्रमभेदयोः अष्ट्यपदश्चन्द्रमल्ल्यां, लूतायां शरभे गिरौ । कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः स्यादभिस्यन्द आस्रवनेत्ररोगातिवृद्धिषु । अववादस्तु निदेशे निन्दाविश्रम्भयोरपि उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि । एकपदं तदात्वे स्यादेकपदी तु वर्त्मनि
॥ १३३॥
॥ १३४ ॥
॥ १३५ ॥
॥ १३६ ॥
॥ १३७ ॥
॥ १३८॥
o૫
For Private And Personal Use Only