________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६६७॥
॥६६८॥
।। ६६९ ॥
।। ६७० ॥
॥६७१ ॥
॥ ६७२ ॥
कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः । बहुलास्तु कृत्तिकासु बिडालो वृषदंशके पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदेशयोः । भुजङ्गभेदे परिघे शुनि द्वादशराजके संघाते कुष्टभेदे च मञ्जुलन्तु जलाञ्चले। रम्ये कुञ्जे मञ्जुलस्तु दात्यूहे मङ्गलं पुनः कल्याणे मङ्गलो भौमे मङ्गला श्वेतपूर्विकाः । महिला नार्यां गुन्द्रायां मातुलो मदनद्रुमे धत्तुरेऽहिव्रीहिभिदोः पितुः श्यालेऽथमाचलः । बन्दिचौरे रुजि ग्राहे मुसलं स्यादयोग्नके मुसली तालमूल्याखुकर्णिका गृहगोधिका । मेखलाद्रिनितम्बे स्याद्रसनाखड्गबन्धयोः रसाल इक्षौ चूते च रसालं बोलसिल्हयोः । रसाला दूर्वाविदार्योर्जिह्वामार्जितयोरपि रामिलो रमणे कामे लाङ्गलं शिश्नपुच्छयोः । लाङ्गलं तालहलयोः पुष्पभिद्गृहदारुणोः लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि । शृङ्खलाधार्ये वञ्जुलस्त्वशोकतिनिशद्रुमे वानीरे चाथ वण्ठालः शूरयुन्नौखनित्रयोः । वातूलो वातले वातसमूहे मारुतासहे वामिलो दाम्भिके वामे विपुल: पृथ्वगाधयोः । विपुलाऽऽर्याभिदि क्षोण्यां विमलोऽर्हति निर्मले वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि। वल्कले त्वचि खण्डे च शम्बलं मत्सरे तटे
।। ६७३॥
॥६७४ ॥
॥ ६७५ ॥
॥ ६७६ ॥
॥ ६७७॥
||६७८ ॥
૨૫
For Private And Personal Use Only