________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६४३॥
॥ ६४४ ॥
॥६४५ ॥
॥६४६ ॥
॥ ६४७ ॥
॥६४८ ॥
मेदके कितवे पिष्टमद्येऽथ जटिलो जटी। जटिला तु मांसिकायां जम्बूलः ककचच्छदे जम्बूद्रुमेऽथ जम्बालं कर्दमे शैवलेऽपि च । जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भल: जम्बीरे देवताभेदे जाङ्गल: स्यात्कपिञ्जले । जाङ्गली तु शूकशिम्ब्यां जाङ्गुलं जालिनीफले जाङ्गुली विषविद्यायां तरलो भास्वरे चले। हारमध्यमणौ षिड्गे तरला मद्यमुष्णिका तमालो वरुणे पुण्ड्रेऽसौ तापिच्छेऽथ तण्डुलः । विडङ्गे धान्यसारे च ताम्बूलं क्रमुकीफले ताम्बूली नागवल्ल्यां स्यात्तुमुलं रणसंकुले। तुमुलो बिभीतकद्रौ तैतिलं करणान्तरे तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि । क्षौमवस्त्रेऽथ धवलो महोक्षे सुन्दरे सिते धवली गौर्नकुलस्तु पाण्डवप्राणिभेदयोः । नकुली कुक्कुटीमांस्यो भीलं तूत्तमस्त्रिया: वङ्क्षणे नाभिगर्भाण्डे नाकुली चव्यरास्नयोः । कुक्कुटीकन्दे निचुलस्त्विज्जलद्रौ निचोलके निस्तलन्तु बले वृत्ते निर्मलं विमलेऽभ्रके। निर्माल्ये च निष्कलस्तु नष्टबीजे कलोज्झिते नेपाली मन:शिला स्यात् सुवहा नवमाल्यपि । प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च । पटलः तिलके नेत्ररोगे च्छदिषि संचये
॥ ६४९ ॥
॥ ६५०॥
॥ ६५१॥
।। ६५२ ॥
॥ ६५३ ॥
।। ६५४ ॥
૨૫૪
For Private And Personal Use Only