SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandiri ॥ २८३॥ ॥ २८४ ॥ ॥ २८५ ॥ ॥ २८६ ॥ | २८७ ॥ ॥ २८८॥ वनितोत्पादितात्यर्थरागनार्यपि नार्यपि। वसतिः स्यादवस्थाने निशायां सदनेऽपि च व्रततिस्तु प्रतानिन्यां विस्तारेऽप्यथ वापितम् । बीजाकृते मुण्डिते च व्याघातो योगविघ्नयोः घातेऽथ व्यायतं दीर्घव्यापृतेऽतिशये दृढे । वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे वासन्ती माधवीयूथीपाटलास्वथ वासितम् । वस्त्रच्छन्ने ज्ञानमात्रे भावितेऽप्यथ वासिता स्त्रीकरिण्योः विवस्वांस्तु देवसूर्येच] विश्रुतम् । ज्ञाते हृष्टे प्रतीते च विदितं बुधिते श्रुते विगतो निष्प्रभे वीते विविक्तो वसुनन्दके। विविक्तं स्यादसंपृक्ते रह:पूतविवेकिषु विधुतं कम्पिते त्यक्ते विकृतो रोग्यसंस्कृतः। बीभत्सश्च विनीतस्तु निभृते निर्जितेन्द्रिये वाणिजे साधुवाह्यश्वे विनयग्राहिते हते । विनतः प्रणते भुग्ने विनता पिटकाभिदि सुपर्णायां विहस्तस्तु विह्वले पण्डकेऽपि च । विश्वस्तः कृतविश्वासे विश्वस्ता विधवस्त्रियाम् विजातो विकृते जाते विजाता तु प्रसूतिका । विवर्तो नर्तने सोऽपावृतौ विकृती रुजि डिम्बे विकारमद्यादौ विपतिर्यातनापदोः । विच्छित्तिः स्यादङ्गरागे हावविच्छेदयोरपि विधाता द्रुहिणे कामे विनेता देशके नृपे। वृत्तान्तस्तु प्रकरणे कात्स्र्ने वार्ताप्रकारयोः ॥ २८९ ॥ ।। २९० ॥ || २९१ ॥ ॥ २९२॥ ॥ २९३ ॥ || २९४ ॥ ૨૨૪ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy