________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४७॥
।। २४८॥
॥ २४९ ॥
॥ २५० ॥
॥ २५१॥
॥ २५२ ॥
उदये च समृद्धावप्येधतु नरि पावके। कन्दितं रुदितं हूतौ कलितं विदिताप्तयोः किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि । किराती कुट्टनी गङ्गा कृतान्तोऽक्षेमकर्मणि सिद्धान्तयमदैवेषु गर्जितो मत्तकुञ्जरे। गर्जितं जलदध्वाने ग्रन्थितं हतदृब्धयोः आकान्ते च गरुत्मांस्तु विहगे पन्नगाशने । गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि गोदन्तो हरिताले स्यात्संनद्धे दंशितेऽपि च । गोपतिः शङ्करे षण्डे नृपतौ त्रिदशाधिपे सहस्रकिरणे चापि ज्वलितौ दग्धभास्करौ । जयन्तावैन्द्रिगिरीशौ जयन्त्युमापताकयोः जीवन्त्यामिन्द्रपुत्र्यां च जगतीच्छन्दसि क्षितौ । जम्बूवप्रे जने लोके जामाता दुहितुः पतौ सूर्यावर्ते वल्लभे च जीमूतो वासवेऽम्बुदे । घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवन्दयोः जीवन्त्यां च गुडूच्यां च जीवातुर्जीवनौषधे । जीविते च जम्भितं तु विचेष्टितप्रवृद्धयोः जम्भायां स्फुटिते चापि त्वरितं वेगतद्वतोः । त्रिगर्तो गणिते देशे त्रिगर्ता कामुकस्त्रियाम् घुघु-मथ तृणता तृणत्वे कार्मुकेऽपि च । दंशितो वर्मिते दष्टे स्रवन्ती च द्रवन्त्यपि नद्यामोषधिभेदे च द्विजातिर्ब्राह्मणेऽण्डजे । दुर्जातं व्यसनासम्यक्जातयोरथ दुर्गतिः
॥ २५३॥
॥ २५४॥
॥ २५५ ॥
॥ २५६ ।।
॥ २५७ ॥
॥ २५८ ॥
૨૨૧
For Private And Personal Use Only