________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके । नलमीनश्चिलिचिमो मत्स्यराजस्तु रोहितः मद्गुरस्तु राजशृङ्गः शृङ्गी तु मद्गुरप्रिया । क्षुद्राण्डमत्स्यजातं तु पोताधानं जलाणुकम् महामत्स्यास्तु चीरिल्लितिमिङ्गिलगिलादयः । अथ यादांसि नक्राद्या हिंसका जलजन्तवः नकः कुम्भीर आलास्यः कुम्भी महामुखोऽपि च । तालुजिह्वः शङ्खमुखो गोमुखो जलसूकरः शिशुमारस्त्वम्बुकूर्म उष्णवीर्यो महावसः । उद्रस्तु जलमार्जारः पानीयनकुलो वसी ग्राहे तन्तुस्तन्तुनागोऽवहारो नागतन्तुणौ । अन्येऽपि यादोभेदाः स्युर्बहवो मकरादयः कुलीरः कर्कटः पिङ्गचक्षुः पार्श्वोदरप्रियः । द्विधागतिः षोडशांहि: कुरचिल्लो बहिश्चरः कच्छप: कमठः कूर्मः क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्तदौलेयौ जीवथः कच्छपी दुली मण्डूके हरिशालूरप्लव भेकप्लवङ्गमाः । वर्षाभूः प्लवगः शालुरजिह्नव्यङ्गदर्दुराः स्थले नरादयो ये तु ते जले जलपूर्वकाः । अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरादयः रसजा मद्यकीटाद्या नृगवाद्या जरायुजाः । यूकाद्याः स्वेदजा मत्स्यादयः संमूर्च्छनोद्भवाः खञ्जनास्तूद्भिदोऽथोपपादुका देवनारकाः । त्रसयोनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम्
૧૧૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ४१२ ॥
॥ ४१३ ॥
॥ ४१४ ॥
।। ४१५ ॥
॥ ४१६ ॥
॥ ४१७ ॥
॥ ४१८ ॥
॥ ४१९ ॥
॥ ४२० ॥
॥ ४२१ ॥
।। ४२२ ।।
॥ ४२३ ॥