________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छुछुन्दरी गन्धमुष्यां गिरिका बालमूषिका। बिडाल ओतुर्मार्जारो हीकुश्च वृषदंशक:
॥३६७॥ जाहको गात्रसंकोची मण्डली नकुलः पुनः । पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥३६८ ॥ भोगी भुजङ्गभुजगावुरगो द्विजिह्वव्यालौ भुजङ्गमसरीसृपदीर्घजिह्वाः । काकोदरो विषधरः फणभृत्पदाकुदृक्कर्णकुण्डलिबिलेशयदन्दशूकाः॥ दर्वीकर: कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ । कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद् राजसर्पस्तु भुजङ्गभोजी ॥ ३७० चक्रमण्डल्यजगरः पारीन्द्रो वाहसः शयुः । अलगर्दो जलव्यालः समौ राजिलदुन्दुभौ
॥ ३७१ ॥ भवेत् तिलित्सो गोनासो गोनसो घोणसोऽपि च । कुक्कुटाहि: कुक्कुटाभो वर्णेन च रवेण च
॥३७२॥ नागाः पुनः काद्रवेयास्तेषां भोगावती पुरी। शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुक: ॥ ३७३॥ स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः । वासुकिस्तु सर्पराजः श्वेतो नीलसरोजवान्
।। ३७४ ॥ तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । महापद्मस्त्वतिशुक्लो दशबिन्दुकमस्तक:
॥ ३७५ ॥ शङ्खस्तु पीतो बिभ्राणो रेखामिन्दुसितां गले । कुलिकोऽर्धचन्द्रमौलिालाधूमसमप्रभः
॥ ३७६ ॥ अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः । इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः
।। ३७७॥ निर्मुक्तो मुक्तनिर्मोक: सविषा निविषाश्च ते । नागाः स्युर्दग्विषा लूमविषास्तु वृश्चिकादयः ॥३७८॥
१११
For Private And Personal Use Only