SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। १३८ ॥ ।। १३९॥ ।। १४० ।। ॥ १४१ ॥ ॥ १४२ ॥ ।। १४३ ॥ एकप्रदेशावगाढं यदनन्तप्रदेशकम् । सर्वजीवानन्तगुणरसच्छेदयुतोचितम् गृह्णात्यन्त्यचतुःस्पर्श द्विगन्धं पञ्चवर्णकम् । जीवः पञ्चरसं कर्मस्कन्धस्य दलिकं किल (यु.) तद्भागमायुषः स्तोकमधिकं नामगोत्रयोः । अन्योऽन्यं तु तयोस्तुल्यमधिकं विघ्नकर्मणः आवरणद्वयस्यापि त्रयाणां तु समं मिथः । मोहस्याधिकमेतेभ्योऽधिकं वेद्यस्य यच्छति (यु.) अल्पप्रदेशं येनैतन्नैवालं सुखदु:खयोः । स्वस्वस्थितिविशेषेण भागाप्ति: शेषकर्मणाम् स्वजात्याप्तांशानन्तांश: सर्वघातिभिदां भवेत् । शेषं विभज्य शेषासु बध्यमानास्वनुक्षणम् सम्यग्दृग् देशविरतः सर्वतो विरताभिधः । अनन्तानां विसंयोगो दर्शनक्षपको गुणः मोहस्य शमकः शान्तमोहस्तत्क्षपको गुणः । क्षीणो योगी वियोगश्च गुणश्रेणीति संमता गुणकारेण सा श्रेणी दलानां रचनोदयात् । असंख्यातगुणेनानुसमयं क्रियतेऽङ्गिना एतद्गुणाः पुनर्जीवा असंख्यगुणनिर्जराः । भवन्ति क्रमशो लोके गुणश्रेण्यधिरोहणात् पल्यसंख्येयभागोऽत्र सास्वादनेऽन्तरं लघु । गुणस्थानेषु शेषेषु तत्तथान्तर्मुहूर्तकम् द्विः षट्षष्टिश्च मिथ्यात्वेऽतराणामन्तरं गुरु । गुणस्थानेषु शेषेषु तच्चान्तःपुद्गलार्धकम् ॥ १४४ ॥ ।। १४५ ॥ ।। १४६ ॥ ॥ १४७ ॥ ॥ १४८ ॥ ॥१४९ ॥ ૧૮૯ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy