________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षः स्तौति वाचेति मुदा प्रवक्ति, पेन्दत्प्रतापं नृपति विलोक्य । षाऽस्पृग्! भवन्तं पथि चाष एष, षोद्दामगाम्भीर्ययुजं व्रजन्तम्।। १०८ ॥ ष्ट्राऽरिष्ट ! शिष्ट! प्रतिशिष्टदौष्ट्याऽष्ट्राऽाऽथ चाषो जयति प्रकाकम् । ष्ट्राद्यैः सुधीभिर्विजयो विदेशे, ष्ट्राधासनानां कथितोऽध्वगानाम् ॥ १०९ ।। ष्टिदाय ! शस्त्राहतवैरिवार!, ष्टुदोषरोपेश्वर ! चाषकस्य । ष्टुदानबुद्धे ! रुतमीक्षणं च, ष्टु चोपदिष्टं सकलास्पदेषु ॥ ११० ॥ ष्ठोऽरण्यमध्ये व्रजतः पुरश्चेत्, ष्ठं चाषको यो विदधाति दीप्तम् । ष्ठाऽऽभाजिताब्जेट ! कलहावहः स, ष्ठाः पण्डिता इत्थमुदाहरन्ति
॥१११ ॥ स्कन्ताऽऽपदां क क्र इति प्रदीप्तः, स्कन्नापदर्केऽर्क इति प्रशान्तः । स्कन्धस्थिरोर्वीश ! किकीदिवेश्च, स्कन्दा इति ध्वानयुगं वदन्ति
।। ११२ ॥ स्खलितदुष्कृत ! खञ्जनकं बुधाः, स्खलदलीक ! वदन्ति अमूदृशम् । स्खलनहीनकयोगयुतं सदाऽस्खलितधीर्मुनिसूनुमिलापते !|| ११३ ।। स्तुत्योदितेऽगस्त्यमुनौ सुदेशेऽस्तिमंश्च दृष्ट्वा वरखञ्जरीटम्। स्तब्धार ! कुर्याद् वरमन्त्रपूजास्तत्सूचिताभीष्टफलस्य सिद्ध्यै ११४ स्थान ! श्रियां यः कुवपुः कुचेष्टः, स्थास्नो कुदेशे हि निरीक्ष्यतेऽह्नि। स्थायिन् ! रणे खञ्जनकः कदाचित्, स्थावर्च ! दृष्ट्वा परिशोषयेत्तम् ।
॥ ११५ ॥ स्थान ! श्रीसुखपेटकस्य कुवपुः सत्खञ्जरीटः खगः, स्थास्नो भूप ! कुचेष्टितः खलु कुदेशे दृश्यते जातु यः । स्थावर्चाविधितत्परामलमते ! दृष्ट्वा विशेषाद् ऋधक्, स्थायिस्तं परिशोषयेत् तदुदिताऽसौख्यव्रजध्वस्तये ॥११६ ॥
૩૯૯
For Private And Personal Use Only