________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २९१ ॥
॥ २९२ ॥
द्रुतं विलम्बितं मध्य-मिति गीते त्रयो लयाः । ग्रामघोरा मन्दतारा, तालाश्च चपुटादयः सप्तस्वरास्त्रयो ग्रामा-मूर्छनाश्चैकविंशतिः । ताना एकोनपञ्चाशत्तालाः स्युर्हि चतुर्मिताः वाद्यं वादित्रमातोद्यं, तूर्यं तूरः स्मरध्वजः । ततं वीणाप्रभृतिकं, कांस्यतालादिकं घनम् वंश्यादिकं तु शुषिर-मानद्धं मुरजादिकम् । विपञ्ची वल्लकी वीणा, मुरली वंशवेणवः मृदङ्गो मुरजश्चैव, मर्दल: पुष्करस्त्रिधा।
।। २९३ ॥
॥ २९४ ॥
......
॥ २९५ ॥
॥ २९६ ॥
॥ २९७ ॥
॥ २९८ ॥
स्याद्यशःपटहो ढक्का, भेरी दुन्दुभिरानकः । वाद्यभेदा: शंखताल-झल्लरी-पटहादयः शृङ्गारहास्यकरुणा रौद्रवीर भयानकाः । बीभत्सश्चाद्भुतशान्ता-वेते नव रसाः स्मृताः मभजसानरयता, गणा अष्ट लघुर्गुरुः । एकद्विचतुःषट्स्वरै- तो लघुर्गुरुः प्लुतः आदिमध्यावसानेषु, भजसा यान्ति गौरवम् । यरता लाघवं यान्ति, मस्त्रिगुरुर्लघुस्त्रिकः न स्यात्पञ्चस्वरान्न्यूनं, पञ्चभिः पाण्डवं स्मृतम् । षट्स्वरैश्चौडवं प्रोक्तं, संपूर्णं चैव सप्तभिः पण्डित: कोविदः प्राज्ञो, धीमान् विद्वान् बुधः सुधीः । कृती मनीषी मेधावी, कविः शूरो विशारदः कृष्टिविपश्चित्संख्यावान्, दोषज्ञो ज्ञो विचक्षणः । प्रवीणश्चतुरो विज्ञो, विदग्धः कुशल: पटुः
।। २९९ ।।
॥ ३०० ॥
|| ३०१॥
॥ ३०२ ॥
35२
For Private And Personal Use Only