________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८७॥
॥ ८८॥
॥ ८९ ॥
॥ ९० ॥
।। ९१ ।।
॥ ९२ ॥
भावः शृङ्गारमाधुर्यं भावोऽवस्थाप्ररूपणम् । विलास: कामजो दोषस्तदेव ललितं मतम् उत्तमाङ्गं विना देहं कबन्धं चेति शस्यते । शिरसो वेष्टनं यद्वै तदुष्णीषं निगद्यते आहतं समदीर्घ स्यानिबिडं पीडितोन्नतम् । मण्डूको भेकसंज्ञः स्याद्वर्षाभूश्चातको मतः शिवा पिङ्गवती ज्ञेया विशालं सबलं मतम् । दुश्चर्मा शिपिविष्टः स्यात्कर्षकस्तु कृषीबलः कन्याजातश्च कानीनो पण्ड: क्लीब इति स्मृतः । उत्कृष्टः श्वसुरः स्यातां म्लिष्टमव्यक्तवाचकम् रदनो हस्तिदन्तः स्यादानं कटकसंज्ञितम् । तोदनं चाङ्कुशं विद्यादालानं हस्तिबन्धनम् घनाघन इति ख्यातः शास्त्रेष्वधिकपौरुषः । अपाचीनं मनोजं च बुद्धिर्जेया तु शेमुषी अर्कस्तु पादपे ज्ञेयो नदी स्यात्फेनवाहिनी। अश्वारोहो मरुद्यानोऽश्वानां हृदये ध्वनिः आक्रन्द इति विज्ञेयः खुराश्च शफसंज्ञिताः । आममासं भवेत्क्रव्यं पक्वं पिशितमुच्यते शुष्कं तुं विरसं ज्ञेयं मृष्टं सरसमुच्यते। शङ्खजं शुक्तिजं चैव वाराहं तिमिमौक्तिकम् वंशादाशीविषान्नागाज्जीमूताच्च तथाष्टमम् । लोकज्ञो दक्षिणो ज्ञेयो दक्षिणश्च तुः स्मृतः आकृतं तु मतं विद्यात्कण्टकं गहनं मतम् । आननं चाकुले नेत्रे चिकुरं चापि शस्यते
॥ ९३ ॥
॥ ९४ ॥
।। ९५ ॥
॥ ९६ ॥
।। ९७ ।।
|| ९८॥
339
For Private And Personal Use Only