________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणमकलङ्कस्य, पूज्यपादस्य लक्षणम्। द्विसंधान-कवेः काव्यं, रत्नत्रयमपश्चिमम्
॥ २०४॥ ब्रह्माणं समुपेत्य वेदनिनदव्याजात्तुषाराचलस्थानस्थावरमीश्वरं सुरनदीव्याजात्तथा केशवम् । अप्यम्भोनिधिशायिनं जलनिधिध्वानापदेशादहो !, पूत्कुर्वन्ति धनञ्जयस्य च भिया शब्दाः समुत्पीडिताः ॥ २०५ ॥
॥ १
॥
॥ २॥
कविश्रीधनञ्जयविरचिता
॥ अनेकार्थनाममाला ॥ गम्भीरं रुचिरं चित्रं, विस्तीर्णार्थप्रकाशकम् । शाब्दं मनाक् प्रवक्ष्यामि, कवीनां हितकाम्यया अर्हत् पिनाकिनौ शम्भू, जिनावर्हत्तथागतौ । वेदसूयॊ विवस्वन्तौ, विष्णुरुद्रौ वृषाकपी वैकुण्ठाविन्द्र गोविन्दा, - वनन्तौ शेषशाङ्गिणौ। जीमूतौ करिकुत्कीलौ, पर्जन्यौ शक्रवारिदौ वनमम्भसि कान्तारे, भुवनं विष्टपेऽर्णसि । घृतं सर्पिषि पानीये, विषं हालाहले जले तल्पं दारेषु शय्यायां, ज्योतिश्चक्षुषि तारके। धवले सुन्दरे रामो, वामो वके मनोहरे नक्षत्रे मन्दिरै धिष्ण्यं वसने गगनेऽम्बरम् । परिधौ पादपे सालः, सिन्धुः स्रोतसि योषिति सारसः शकुनौ धूर्ते, केतनं दीधितौ ध्वजे । मयूखः कीलके दीप्तौ पतङ्गः शलभे रवौ
॥४
॥
॥६॥
॥ ७
॥
૨૬
For Private And Personal Use Only