________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९२ ॥
॥ १९३ ॥
11 १९४॥
॥ १९५ ॥
॥ १९६॥
॥ १९७ ॥
सतताऽनारताऽजनाऽ-न्वहं कन्यापतिर्वरः । उद्वाह: परिणयनं, विवाहश्च निवेशनम् शुषिरं विवरं रन्धं छिद्रं गर्ता च गह्वरम् । श्वभ्रं रस्यं च पातालं, नरकं यान्त्यमेधसः अदभ्रं भूरि भूयिष्ठं, बंहिष्ठं बहुलं बहु । प्रचुरं नैकमानन्त्यं, प्रभूतं प्राज्यपुष्कले भवो भावश्च संसारः, संसरणं च संसृतिः । तत्त्वज्ञश्चतुरो धीर-स्त्यजेज्जन्मजवं जवम्
ओजस्व्यूर्जस्वी तेजस्वी, तरस्वी च मनस्व्यपि। भास्वरो भासुरः शूरः प्रवीरः सुभटो मतः उररीकृतमप्यूरी-कृतमङ्गीकृतं तथा। अस्तुङ्कारोऽभ्युपगमे, सत्यङ्कारः पणार्पणे तनुत्रं वर्म कवच-मावृतिर्बाणवारणम् । कूर्पासं कञ्चुकं छत्र-मातपत्रोष्णवारणम् केशं शिरोरुहं वालं, कचं चिकुरमीहयेत् । चूडापाशं च धम्मिल्लं, कबरी केशबन्धनम् क्षेमं कल्याणमभयं, श्रेयो भद्रं च मङ्गलम् । भावुकं भविकं भव्यं, कुशलं च शिवं तथा कवेर्धनञ्जयस्येयं, सत्कवीनां शिरोमणेः । प्रमाणं नाममालेति, श्लोकानां हि शतद्वयम् वक्ता वाचस्पतिर्यत्र, श्रोता शकस्तथापि तौ । शब्दपारायणस्यान्तं, न गतौ तत्र के वयम् ? तथापि किञ्चित् कस्मैचित्, प्रतिबोधाय सूचितम् । बोधयेत् कियदुक्तिज्ञं, मार्गज्ञः सह याति किम् ?
॥ १९८ ॥
॥ १९९ ।।
॥ २०० ॥
।। २०१॥
।। २०२॥
॥२०३॥
૨૯૫
For Private And Personal Use Only