________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६० ॥
।। ६२॥
॥ ६३॥
॥६४ ॥
॥६५॥
शतमन्युस्तुराषाट् च, पुरुहूतश्च कौशिकः। सङ्क्रन्दनोऽथ मघवा, पुलोमारिर्मरुत्सखः काष्ठा ककुब् दिगाशा च दक्षकन्या तथा हरित् । तत्पर्यायपरं योज्यं, प्राज्ञैः पालगजाऽम्बरम् पवनः पवमानश्च, वायुर्वातोऽनिलो मरुत् । समीरणो गन्धवाहः, श्वसनश्च सदागतिः नभस्वान् मातरिश्वा च, चरण्युर्जवनश्चलः । प्रभञ्जनोऽस्य पर्याय-पुत्रौ भीमाऽञ्जनात्मजौ तत्सखोऽग्निः शिखी वह्निः, पावकश्चाऽऽशुशुक्षणिः । हिरण्यरेताः सप्तार्चि-र्जातवेदास्तनूनपात् स्वाहापतिर्हताशश्च, ज्वलनो दहनोऽनलः । वैश्वानरः कृशानुश्च, रोहिताश्वो विभावसुः वृषाकपिः शमीगर्भो, हव्यवाहो हुताशनः । तदादि-सूनुः सेनानी:, स्कन्दश्च शिखिवाहनः कार्तिकेयो विशाखश्च, कुमारः षण्मुखो गुहः । शक्तिमान् क्रौञ्चभेदी च, स्वामी शरवणोद्भवः तत्पिता शङ्करः शम्भुः शिवः स्थाणुर्महेश्वरः । त्र्यम्बको धूर्जटिः शर्वः, पिनाकी प्रमथाधिपः त्रिपुरारिर्विशालाक्षो, गिरीशो नीललोहितः । रुद्रेन्दुमौलियज्ञारि-त्रिनेत्रा वृषभध्वजः उग्रः शूली कपाली च, शिपिविष्टो भवो हरः । उमापतिविरूपाक्षो, विश्वरूप: कपद्यपि भागीरथी त्रिपथगा, जाह्नवी हिमवत्सुता । मन्दाकिनी धुपर्याय-धुनी गङ्गा नदीश्वरः
॥६६॥
॥६७॥
॥ ६८॥
।। ६९ ॥
।। ७० ॥
।। ७१ ॥
૨૮૪
For Private And Personal Use Only