________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूम्न्युभौ तु शिवाभेदे खट्वाङ्गे वारि वालुके । भिक्षुभङ्गेऽपि, कीशे तु प्लवगः सप्लवङ्गमः प्लवङ्गः प्रवगोपेतः प्रवङ्गोऽथ मृगे भवेत् । मर्कटः कर्मटस्तद्वत् कुरङ्गश्च कुरङ्गमः वातायुश्च सवातायुर्दन्त्यतालव्यपूर्वगः । शारङ्गः शबलवर्णे चातकेऽपि ससार्गकः मृगभेदे कृष्णसारकालसारौ सदन्त्यकौ । सतालव्यौ च, पृषत् पृषतो बिलशायिनि कन्दली नन्तो ड्यन्तश्च कदली त्रिषु कन्दला । हस्तायामऽश्याममृगे ऋश्य - रिश्यौ च सम्मतौ ऋष्य- रिष्यौ मृगभेदे, वाताभिमुखगामिनि । मृगे वातप्रमीः पुंस्त्रीदन्तो ङीबन्तकोऽप्ययम् अमि पुंसि वातप्रमी शशि वातप्रमीनिति । ङौ वातप्रमीति रूपं ग्रामणीवच्च शोषकम् स्त्रियामीदन्तं लक्ष्मीवद् डीबन्तं तु नदीसमम् । श्वाविधि शललः शल्यः शल्यकः पुंस्त्रियोर्मतः तच्छलाकायां तु शलं शललस्त्रिषु गोधिका । अवलत्तिका लत्तिका गोधा, सर्पसुते पुनः गोधेर - गोधारौ, पल्यां गृहोली गृहगोलिका । गृहोलिका मुसली मूर्द्धन्यतालव्यदन्त्यभाक् अञ्जन्यामञ्जनाधिका हालिनी च हलाहलः । कृकलासे कृकुलासः सरट: सरडस्तथा सरण्डच प्रतिसूर्य: प्रतिसूर्यशयानकः । शयानकः, आखौ तु स्याद् मूषिका मूषिकोऽपि च
૪૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३२४ ॥
।। ३२५ ।।
॥ ३२६ ॥
॥ ३२७ ॥
॥ ३२८ ॥
॥ ३२९ ॥
॥ ३३० ॥
॥ २३१ ॥
॥ ३३२ ॥
॥ ३३३ ॥
॥ ३३४ ॥
।। ३३५ ।।