________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोधनं धनं कीलस्तु पुस्त्रियोः पुष्पलान्वितः । पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ।। ३१२ ॥ बन्धने संदानोद्दाने दामा-दाम-दामो-द्दितम् । संदितं संदानितेऽजे छगलः छागवत् छगः ॥ ३१३ ॥ स्तभ-स्तुभौ, युवाजे तु बर्करो बर्करी तथा। बर्करम्, मेषे तु हुडुहूंडोऽप्युरण ऊरण:
॥ ३१४॥ वडूटो वरुटस्तद्वद् वरूडो वरुडोऽपि च । भरूडो भरुडोऽप्युक्तो भरूटोऽस्थ्याशे कुक्करः ।। ३१५ ॥ कुर्करः श्वानः स्वानश्च शुनक: श्वा शुनः शुनिः । शुनखो भषणो भषकोऽपीन्द्रमहकान्वितः
।। ३१६॥ इन्द्रमहकामुकश्च श्वाने, द्वौ मृगयापटौ । विश्वकद्रुविश्वकद्रूः, शुनकी शुनका शुनी
॥ ३१७॥ श्वानकर्णे शुनस्कर्णः श्वकर्णोऽपि निगद्यते । सैरिभे मह-महिषौ लुलायश्च लुलायुयुक्
॥ ३१८ ॥ सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव-कण्ठेरवौ । केशरी दन्त्यतालव्यः, व्याघ्र द्वीपीव द्वीपिनः चित्रकश्चित्रकायोऽपि, शरभेऽष्यपदोष्टपात् । गण्डके खड्गी खड्गीरः खड्गो वाध्रीणसोऽपि च ॥३२० ॥ दन्त्यतालव्यान्तः कोले शूकर: सूकरः किरिः । किरः ऋक्षे तु भल्लूको भाल्लूको भल्लुकस्तथा ॥ ३२१ ॥ भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् । गोमायौ फेरु-फेरण्डौ फेरवो भूरिमायवत्
॥ ३२२ ॥ भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् । सृगालोऽपि शिवाऽऽबन्तः खिङ्खिरः खिजीरा स्त्रियाम् ॥ ३२३ ॥
૨૪૪
For Private And Personal Use Only