________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| २८८॥
।। २८९ ॥
।। २९० ॥
॥ २९१ ॥
।। २९२ ॥
|| २९३॥
झिल्लो झिल्लिका झिलिका विलेपनमले तथा । आतपस्य रुच्यपि च, श्वापदे व्याड-व्यालको द्विपे मतङ्ग-मातङ्गौ गजो गर्जो मतङ्गजः । करी करिर्दन्तावलो दन्ती पेचकिपेचिलो हस्तिन्यां धेनुका धेनुर्वाशिता वासिता द्वयम् । नार्यामपि कणेरुश्च गणेरुरपि तद् द्वयम् वेश्यायां कर्णिकारेऽपि करेणुः स्त्रीनिभीभयोः । विंशतिवर्षेभे विक्कः, पिक्कोऽपि त्रिंशदब्दके कलभः कडभश्च द्वौ उद्वान्तोपात्तकौ समौ । निर्मदे राजबाह्ये त्वौपवाह्यश्चोपवाह्यवत् हस्तिदन्ते विषाणं स्याद्विषाण्यपि विषाणकः । तन्मूले तु करीरीवत्करीरिर्नेत्रगोलके ईषिका स्यादिषीकेवेभगण्डे करट: कटः । गजपश्चिमभागे त्वपरावदऽवरोदिता शृङ्खलस्त्रिषु हिजीरे निगडो निगलोऽन्दुकः । अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके वेणुकं वैणुकम्, दन्त्यतालव्यादि: शृणिर्मतः । अङ्कुशे, तदग्रेऽपष्ठं काद् द्वादशाऽक्षरान्तिमम् वीते वातं यतं चोक्ते, वरत्रायां सया पया। कक्ष्या गृहप्रकोष्ठे च काञ्चीसादृश्ययोरपि अश्वे तुरगस्तुरङ्गस्तुरङ्गमश्च वाज्यपि। वाजिर्वीतिः पीतिः पीती नान्तोऽश्वायां तु वामिवत् वामी-वनायुजा-वानायुजा-वाल्हीका-वाल्हिकाः । पुच्छे लङ्गुलं लाङ्गुलं गतिभेदे तु धौरितम्
|| २९४ ॥
।। २९५ ॥
॥ २९६ ।।
।। २९७॥
॥ २९८ ॥
॥ २९९ ॥
૨૪૨
For Private And Personal Use Only