________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २ ॥
॥३
॥
॥४
॥
॥बिम्बपरीक्षा ॥ अतीताब्दशतं यत्स्याद् यच्च स्थापितमुत्तमैः । तद् व्यङ्गमपि पूज्यं स्याद् बिम्बं तनिष्कलङ्कवत् धातुलेप्यादिकं बिम्बं व्यङ्गं संस्कारमर्हति । काष्ठपाषाणनिष्पन्नं संस्कारार्ह पुनर्न हि गुलिउंगुलीबाहुनासांहीणां भङ्गेऽप्यनुक्रमात् । शत्रुभीर्देशभङ्गश्च बन्धः कुलधनक्षयः पीठयानपरीवार - ध्वंसे सति यथाक्रमम् । जनवाहनभृत्यानां नाशो भवति निश्चितम् आरभ्यैकाङ्गुलाद् बिम्बं यावदेकादशाङ्गुलम् । गृहेषु पूजयेद् बिम्बं मूर्द्धपादजं (?) पुनः प्रतिमाका लेप्याश्म - दन्तचित्रायसां गृहे। भानाधिकपरिवार - रहिता नैव पूज्यते रौद्री निहन्ति कर्तारं अधिकाङ्गा तु शिल्पिनम् । नासा द्रव्यविनाशाय स्वल्पाऽऽस्या भोगवर्जिता वक्रनासाऽतिदुःखाय हुस्वाङ्गा क्षयकारिणी। अनेत्रा नेत्रनाशाय दुर्भिक्षाय कृशोदरी जायते प्रतिमा हीन - कटिराचार्यघातिनी । जङ्घाहीना भवेद् भ्रातृ - पुत्रमित्रविनाशिनी पाणिपादविहीना तु धनक्षयविनाशिनी । चिरं पर्युषिता वा तु नार्थतो व्यायतस्ततः अर्थहत् प्रतिमोत्ताना चिन्ताहेतुरधोमुखी । आधिप्रदा तिरश्चीना नीचोच्चस्था विदेशदा
।।६।।
॥७॥
॥ ८
॥
॥ ९॥
॥ १० ॥
॥ ११ ॥
૧૬
For Private And Personal Use Only