________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाशको वाशिका वासा वाशा स्त्रीन्रोः करञ्जवत् । करजोऽपि नक्तमाले रक्तमालस्तथेमको
॥ १५६ ॥ काकाचिक: काकचिकस्तद्विशेषे तु पूतिकः । पूतीकोऽपि महावृक्षे स्नुक् स्तुट् स्तुहिः स्नुही स्नुहा ॥१५७ ॥ गुडो गुडा गुडी वज्रो वज्रा वज्री सिहुण्डवत् । सीहुण्डो पराजितायामास्फोटा स्फोतया समम् ।। १५८ ॥ पारिभद्रे तु मन्दारुर्मन्दारो मन्दरोऽपि च । मधुद्रुमे मधूकः स्याद् मधुकश्च मधूलक:
।। १५९॥ मध्वष्ठीलो मधुष्ठीलो मधुश्चापि, पलङ्कषे । गुग्गुलो गुग्गुलुः कुम्भं कुम्भोलूश्च कुभोलुवत् ।। १६०॥ उलूखलं च खलकं कुम्भोलूखलकं तथा । चारे प्रियालः पियालो राजादन-राजातनौ
॥ १६१ ॥ सन्नकद्रुः सन्नकोद्रुर्धनुष्यटो धनुष्पटौ । धनुरुदन्तः क्षीरिण्यां क्षीरिका च राजादनः
।। १६२॥ राजातनो राजन्यां च फलाध्यक्षोऽप्यध्यक्षवत् । स्थद्रुमे स्यात्तिनिशं तिलिशो नेमि-नेमिनौ
॥ १६३॥ नेमी ड्यतोऽपि नारङ्गे नार्यङ्गस्तापसद्रुमे । इगुदी गुदमिङ्गुदः स्याछीपयां तु काश्मरी ॥ १६४ ॥ कश्मरीवत् काश्मर्या च काश्मीर्यपि च संमता। कम्भारी गम्भारी तुल्ये अम्लीकायां मताम्लिका ॥१६५ ॥ अम्ब्लिका चाम्ब्लिकाऽम्ब्लीका तिन्तिडी तिन्तिली तथा । तिन्तिडीका तिन्तिडिका, दाडिमः शुकवल्लभे ॥१६६॥ दाडिम्बो दालिमोऽपि स्याच्छेलुः श्लेष्मान्तके शलुः । लकुचे लिकुचोऽप्युक्तो डहुश्चाडहुरित्यपि
૨૩૧
For Private And Personal Use Only