________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७२॥
॥ ७३ ॥
॥ ७४ ।।
।। ७५ ।।
॥७६ ॥
1॥ ७७॥
कन्दरोऽपि दरो, दर्याः प्रस्थे प्रष्ठोऽपि सानुयुक् । स्नु तालव्यमूर्धन्यमध्यौ पाषाणयुग् दृषत् शिलाशिल्यौ ग्रावाकरे खनी खानी खनिस्तथा। निधितडागयोरप्येतौ द्वौ, धातौ तु गैरिकम् गवेरुकं च कस्सटी खटिनी च खटीयुता । कठिन्यां ताम्र ऊदम्बमुदुम्बरमुडुम्बरम् औदुम्बरं वरिष्ठं स्यात् त्रिकवर्गद्वितीययुक् । वङ्गे त्रपु त्रपुस्तपुढे सान्ते त्रीणि षण्ढके तारे श्वेतं सितं रूप्यं रूपं भीरु सुभीरुकम् । कनके स्वर्णं सुवर्णं स्याद् महारजतान्वितम् रजतं हेम हेमोऽस्त्री रुक्मं रुग्मं च रुक्मलम् । शातकुम्भं शातकौम्भं हिरण्यं हिरणं तथा वराटशुक्रयोरप्येतौ स्यातां भर्म-भर्मणी । शृङ्गी शृङ्गिरलङ्कारसुवर्णेऽथाऽऽरकूटके आरोऽस्त्री रिरी रीरी च कांस्यं स्याद् वङ्ग-शुल्वजे । कंसं च पञ्चलोहे तु सौराष्ट्रं च सौराष्ट्रकम् पारतः पारदः सूते चलश्च चपलोऽभ्रके। अभ्रं गिरिजामलं स्याद् गिरिजं चामलं तथा शिखिग्रीवे तुच्छाञ्जनतुच्छे पुष्पाञ्जने पुनः । पौष्पकं पुष्पकं पुष्पं पुष्पकेतुवदाढकी तूबरी तुबरी प्रोक्ता मृत्तालकं मृतालकम् । मृत्तिका मृत्स्नया मृत्सा, गन्धाश्मनि सुगन्धक: सौगन्धिक: सुगन्धश्च गन्धिको गन्धकोऽपि च । गोदन्ते हरितालं स्यात् तालमालमलं तथा
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
॥ ८२ ॥
।। ८३॥
૨૨૪
For Private And Personal Use Only