________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्व्यग्राभ्यां, बटौ माणवो माणवकस्तथैव च । मौञ्जीबन्धे तूपापाद् नाय - नयावानय इत्यपि अग्नीन्धने स्यादाग्नीध्राग्नीध्यौ स्यातां जटाजटः । सायां, तपस्वि पीठे वृषी वृसी, कमण्डलौ कुण्डं कुण्डी कुण्डिका च, यजमाने तु याजकः । यष्टाऽथ सोमपे सोमा सोमात्पीती पीथी च नान्तगौ सर्ववेदः सर्ववेदौ सान्ताऽदन्तौ तु याजके । सर्वस्वदक्षणेष्टेश्च, हुतौ होम नपुंसकम् नान्तं, होमो नरेऽदन्तो होत्रं, भूमिः परिष्कृता । वे दर्वेदी च निर्मन्थदारुणि त्वरणिर्द्वयोः अरणी समिधि त्वेध एधः सान्तं तथेन्धनम् । नान्तादन्ते तु इध्मेध्ये रक्षाभस्मनि क्षारवत् स्रुवे स्रुग्, मखवधे तु शसनं शमनं समे । शृतोष्णक्षीरगे दध्नि आमीक्षाऽमिक्षया सह दधिषाज्य - दीधीषाज्यौ दधियुक्तघृते मतौ । मृषावादिन्यपि चाग्निहोत्रिण्यग्न्याहितो भवेत् आहिताग्निर्दविर्दर्वी घृतलेखनिकोच्यते । आचमने तूपस्पर्श उपसंस्पर्शनं तथा उपसंस्पर्शः, पाठे तु निपाठ - निपठौ समौ । स्वाध्याये जपो जाप उपवास उपोषितम् अपवस्त्रमुपवस्त्रमौपवस्त्रोपवस्त्रके । वृत्ते चरित्रं चारित्रमाचार- चरणे अपि चरितं प्राचेतसे तु वाल्मीकिर्वल्मीकयुक् । वाल्मीक - वाल्मिकौ तद्वत् कविरादिकविस्तथा
૨૧૩
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २९७ ॥
।। २९८ ।।
॥ २९९ ॥
|| 300 ||
॥ ३०१ ॥
॥ ३०२ ॥
॥ ३०३ ॥
॥ ३०४ ।।
॥ ३०५ ॥
॥ ३०६ ॥
॥ ३०७ ॥
॥ ३०८ ॥