________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७२॥
॥७३॥
॥ ७४ ॥
|| ७५ ॥
॥ ७६॥
।। ७७॥
संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा यद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च न सामान्यविशेषता विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते धर्मधर्म्यविनाभावः सिद्धयत्यन्योऽन्यवीक्षया। न स्वरूपं स्वतो ह्येतत् कारकज्ञापकाङ्गवत् सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वं विरुद्धार्थमतान्यपि विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते वक्तर्यनाप्ते यद्धेतो: साध्यं तद्धेतुसाधितम् । आते वक्तरि तद्वाक्यात् साध्यमागमसाधितम् अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाऽखिलम् । प्रमाणाभासमेवातस्तत्प्रमाणादृते कथम् साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता। न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः बहिरङ्गार्थतैकान्ते प्रमाणाभासनिहवात् । सर्वेषां कार्यसिद्धिः स्याविरुद्धार्थाभिधायिनाम् विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति याच्यमिति युज्यते भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहि:प्रमेयापेक्षायां प्रमाणं तन्निभं च ते
॥ ७८ ॥
।। ७९ ॥
॥ ८० ॥
।। ८१ ॥
॥ ८२ ॥
।। ८३॥
For Private And Personal Use Only